पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- सोमयागयोरप्राप्तत्वात्सोमविशिष्टयागविधानम् --सोम- वता यागेनेष्टं भावयेदिति । न चोभयविधाने वाक्यभेदः, विशिष्टस्यैकत्वात् । विशिष्टविधौ च मत्वर्थलक्षणा-यथा सोमपदेन मत्वर्थो लक्ष्यते सोमवतति । न हि मत्वर्थलक्षणां विना सोमस्या- ऽन्वयः सम्भवति, न तावत्सामानाधिकरण्येनान्वयः तथा सति प्रत्यक्षविरोधापत्तेः नहि सोमो यागो भवितुमर्हति । यदि तावत्सोमयागयोरैक्यरूपेण भावनायां करणत्वेनैवान्वयः सोमेन यागेनेष्टं भावयेत्' इति, तत उभयविधाने वाक्यभेदः, विष्टा न भवन्ति तहिं तत्कर्म गुणाश्च विधीयेरन्निसवयवार्थमुक्त्वा- भभामादित्यवयवार्थ वक्तुपाह । नचोभयेति । ननु सोमस्य कारकात्मना भावनाऽन्वयात्कथं सोमवतेति यागविशेषणत्वमत आह । विशिष्टविधाविति । कारकद्वारेणैव भावनान्वययोग्यगुण- विशिष्टघात्वविधाविति वोध्यं तेन साहित्यविशिष्टयागविधौ राजप्रभू विकविशिष्टराजम्यप्रयोगविधौ च न पत्वर्थलक्षणापत्तिः । ऐकरू- पोणेवस्य विवरणं करणत्वेनैवेति । विधेयभेदनिमित्ता विध्या. तिः स्वादित्याशयेनाह। वाक्यभेद इति । ननु (१)शब्दान्तराधि- (१) २० अध्याये १ मपादे १ अधिकरणे विचारितं सोमेन बजेत हिरण्यमात्रेयाय ददाति दाक्षिणानि जुहोति इत्यादीनि बहू न्याख्यातान्तानि श्रूयन्ते तानिर्वाण्येव फलभावनायामन्वयं प्राप्नु- चन्चुत नानाफलभावनास्विति संशये भावनावाचिन आरव्यात. स्वैकत्वाद्भावनाया एकत्वं युक्तं नचधातुभेदाद्भावनाभेदः तद्वाचि. त्वामान घातोस्तस्यामप्रयोजकत्वादिति प्राप्ते बमः अस्त्वाख्यात.