पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विधिस्वरूपनिरूपणम् । दिति । यत्र तु कर्म प्रकारान्तरेण प्राप्तं तत्र तदु- देशेन गुणमात्रविधानम्-यथा “दना जुहुयात्" इति । अत्र होमस्य “अग्निहोत्रं जुहुयात्" इत्यनेन प्राप्तत्वाद्धोमोद्देशेन दधिमात्रविधानम्-दना होम भावयेदिति । यत्र तूमयमप्राप्तं तत्र विशिष्टं वि- धत्ते । तदुक्तम्-न चेदन्येन शिष्टा' इति । शिष्टा उपदिष्टा इत्यर्थः । यथा “सोमेन यजेत” इत्यत्र न्तर्भावस्यापि नामादेः पृथक् कथनं विभिन्नन्यायव्युत्पाद्यपयो- जनवत्ताकत्वख्यापनाय । धात्वर्थानुबन्धिगुणानां धात्वर्थानुवा- देन विधानस्थले धात्वर्थस्यैव कर्मत्वेनान्वय इत्याशयेनोक्तं हो. ममिति । प्रयोगानुबन्धिगुणस्य तु तदनुवादेन विधौ धात्वर्थः करणले नैवान्नेति यथा “पूर्णमास्यां पौर्णमास्या यजेत"इसादौ । नचेदिति । "तद्गुणास्तु(१) विधीयेरन्न विभागाद्विधानार्थ" इतिसूत्रस्य पूर्वोभागः । यदि शास्त्रांतरेण कर्म गुणाश्च विशिष्य (१) दर्शपूर्णमासयोः श्रूयते यदाग्नेयोऽष्टाकपालोऽमावास्या- यां मौर्णमास्यां चाच्युतो भवतीति । तत्र यथाऽग्निहोत्रशब्दोऽग्नये- होत्रमत्यमुमर्थ निमित्तीकृत्य कर्मनामधेयं तथाऽऽग्नेयशब्दोऽप्य. ग्निसम्बन्धं निमित्तीकृत्य कर्मनाम स्यादिति चेन्मैवम् नामत्वे देव. ताराहित्यप्रसङ्गात् अग्निहोत्रे त्वग्निोतियोतिरग्निः स्वाहेति सायं जु- होतीत्यनेन विहितो मन्त्रः प्रत्यक्षविहित इति मात्रवर्णिकी देवता लभ्यते इह तु न तादृशो मन्त्रोऽस्ति, आग्नेयशब्दस्तु देवतां विधा. तुं शक्नोति अग्निर्देवताऽस्येत्यस्मिन्नर्थे तद्धितस्योत्पन्नत्वात् । न च द्रव्यदेवतयोरुभयोर्गुणयोर्विधानाद्वाक्यभेद इति शङ्कनीयं कर्मणोऽ- प्राप्तत्वेन गुणद्वयविशिष्टस्य कर्मण एकेन वाक्येन विधानात् । त- स्मादाग्नेयशब्देन देवतागुणो विधीयते इति प्रथमाध्यायस्य चतु र्थपादे सप्तमाधिकरणे विचारितम् ।