पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- स च वेदोविधिमन्त्रनामधेयनिषेधार्थवादात्मकः। तत्र विधिःप्रयोजनवदर्थविधानेनार्थवान् । स चाप्राप्तमर्थ विधत्ते-यथा “अग्निहोत्रं जुहुयात्स्वर्गकामः” इति विधि- प्राप्तं प्रयोजनबद्धोमं विधत्ते,अग्निहोत्रहोमेन स्वर्ग भावये- पनाम नियमानर्थक्यं नियमादृष्टस्याहवनीयवत् क्रत्वपूर्व एवोपयो- मात् । एतेन त्वनिषेधेष्वध्ययननियमस्यार्थवत्ता सिद्धा । पुरु- पार्थनिषेधेष्वपि तन्नियमस्य प्रायश्चित्तापूर्वोपयोगोबोध्यः । श- क्यते हि वक्तुं अध्ययनावाप्तनिषेधेनैव स्वानुष्ठितकर्मणो दो- षजनकत्वं ज्ञात्वा तन्निवृत्त्यर्थं कृतप्रायश्चित्तात्तनिवृत्तिर्भवतीति । वक्ष्यति चैतद्विस्तरेणावसरे । एवं च नित्याद्यनुष्ठानस्याध्यय- नविधिसिद्धार्थज्ञानमन्तरेणासम्भवासिद्धमध्ययनस्य फलतोनि. स्वत्वं दयितुमध्ययनाकरणे "अनधीयाना व्रात्या भवन्ति"इति प्रत्यवायस्मरणं सङ्गच्छत इत्याहुः । तन्मतमभिप्रेत्यैवाह । स. कलस्यति । कर्माण षष्ठी । अध्ययनेन स्वाध्यायं भाव- येदित्यापाततो बोधयत् स्वाध्यायप्रयोजनाकाङ्क्षायामातेन स्वाध्यायेन प्रयोजनवदर्थज्ञानं कुर्यादितिविपरिणामेन बोधयति स्वाध्यायस्योपयोगयोग्यतया सक्तुबैलक्षण्यादित्याशयः(१)। ननु सन्ति वेदावयवा अन्येपि तद्वदर्थवादानां भवतु लक्षणां विनैव फलसत्तेखाशक्यार्थवादेषु तद्वैलक्षण्यं दयितुं वेदावयवान्तरा- जामुद्देशपूर्वकमुपयोगं तावदाह । सचेत्यादिना । विधौ सम्भदव. (१) सक्तून् जुहोतीत्यनेन होमेन सक्तून् भावयेदिति बो. धानीकारे होमेन रक्षाभूतानां भाव्युपयोगाभावेन सक्तूनां संस्का- रकर्मत्वं परित्यज्य द्वितीयया तृतीयाथै लक्षयित्वा सक्तुकरणकामहे मेष्टं भाक्येदिति प्रधानकर्मत्वमाश्रितं न तथा प्रकृते वेदानामने उपयोमराहित्यमिति भावः।