पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्ययनविधिफलकथनम् । निरर्थकस्याध्ययनानुपपत्तेः । प्रयोजनवदर्थे चेदतात्पर्यनिर्णयोऽध्ययनविधिफलमित्यर्थः । अन्येतु न पर्वपदाभिहितदेवतावत् स्वाध्यायस्य गुणत्वेनान्वयः तव्यप्रत्ययेन कर्मतयाऽभिहितस्य प्राधान्यान्वयौचित्यात् तेन यथा "पुरोहितं वृणीत" इत्यत्र प्रतीतपाधान्याऽपरित्यागेन(१) वाक्यार्थ आश्रीयते वृतेन पुरोहितेनेष्टं भावयदिति, तथा प्रकृतेऽधीनेन स्वा- ध्यायेनार्थज्ञानं भावयेदिति वाक्यार्थः । एवं च पुरोहितैकत्ववत्स्वा- ध्यायकत्वस्यापि विवक्षासिद्धिः, अध्ययनविधिश्रवणाच्च जायमा- नोऽर्थपरत्वनिर्णयः स्यादप्यध्ययनविधिफलं न त्वध्ययननियमस्य, पुस्तकादिनापि हि महाभारतादिवन्नियतानुपूर्वीमाधिगच्छन्तः प्रा- प्नुयुरेव विशिष्टार्थवोधम् । त्रैवर्णिकाधिकारनियमस्तु भवेदध्ययन- नियमस्य फलं, विनाऽर्थज्ञानं क्रत्वनुष्ठानासंभवात् ऋतुविधीनामर्थ- ज्ञानापेक्षा जानतः सानाध्ययननियमविशिष्टार्थज्ञानस्य च प्रयो- जनापेक्षां पश्यतः पुरुषस्य लिङ्गकल्पितश्रुत्या तादृगर्थज्ञानं क्रत्व- मिति बोधे जनिते तादृशज्ञानवत एवं क्रतुष्वधिकार इति बोधा- वश्यम्भावात् । यद्यप्यग्निप्ताध्येषु कर्मसु त्रैवर्णिकाधिकारोऽग्निवला. देव सिद्ध्यति तथापि “दर्भस्तम्बे जुहुयात्" इत्यादिष्वनग्निसा- ध्येषु तत्सिद्विरुक्त विधार्थज्ञानवलादेव भवति । वस्तुतस्त्वाधा- नस्यानङ्गत्वेपि तज्जन्यापूर्वविशिष्टानीनां क्रत्वङ्गत्ववत् अध्ययनस्या- नङ्गत्वेपि तन्नियमादृष्टविशिष्टार्थज्ञानस्योक्तश्रुत्या कर्माङ्गत्वेन ज्ञा तस्य (१) पुरोहितपदोत्तरद्वितीयया कर्मत्वस्याभिहिततया प्राधान्यं प्रतीतं वरणनिरूपितं तस्यापरित्यागेन वृतेन पुरोहितेने- त्यनेन वरणस्य पुरोहिते गुणत्वस्यैव स्थापनेन यथा पाक्यार्थस्त- था तव्यप्रत्ययेनाध्ययननिरूपितप्राधान्यस्य स्वाध्याये सत्त्वेन त- दपरित्यज्याध्ययनस्यैव तत्र गुणत्वाङ्गीकारेण वाक्यार्थबोध आ- श्रीयते इति भावः। ७