पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- क्रतोः प्राशस्त्यं प्रतिपादयन्ति, स्वार्थमात्रपरत्वे आन- र्थक्यप्रसङ्गात् । न चेष्टापत्तिः, अध्ययनविध्युपात्तत्वे- यां यद्यानर्थक्यं किं तत्स्वीकारेण अत आह । स्वार्थेति । स्वा. र्थपरत्वे एवानर्थक्यं न प्राशस्त्यपरत्वे इति द्योतनाय मात्रशब्दः यथाहि नियमांशेऽदृष्टकल्पनामङ्गीकृत्याऽन्यलभ्यमपि वैतुष्यमव- घातसाध्यत्वेनाश्रीयते एवमन्यलभ्योषि प्राशस्त्यबोधोभवत्यर्थ- वादफलम् । अङ्गाविध्यर्थवादानां तु तद्द्वारेणैव(१) प्रधानविधिशे पभूतानामङ्गेषु प्रवृत्तिं जनयन्तं प्रधानविधि प्रति सम्भवत्य- नुग्राहकत्वमित्याशयः । ननु नाध्ययनविधिरर्थज्ञानमुद्दिश्याध्ययनं विधत्ते येनार्थवा- दानां प्राशस्त्यपरता कल्प्यते, कुतः ? अध्ययनस्य तत्साधनताया मानान्तरसिद्धत्वात् । नचावघातविधिवदेष नियमविधिः यतोऽ. पूर्वीयवैतुष्यमवघातेनैव कुर्यादितिवदपूर्वीयमर्थज्ञानमध्ययनेनैव कु. र्यादिति न शक्यं ववतुम्, अना(२)भ्याधीतेऽध्ययनविधावपूर्वो- पस्थित्यभावात् कथंचिदुपस्थितावपि अध्ययनस्य क्रत्वर्थत्वापत्तेः। अथ नियमविधिस्थले नियमो न वाक्यार्थः येनार्थज्ञान- स्वरूपे नियमाऽसम्भवात् अपूर्वीयत्वेन तत्र नियमं वो. धयितुमपूर्वोपस्थितिरपेक्ष्येत, किन्तु नियमः फलमित्युच्यते, त. थाप्यवघातनियमादृष्टस्येवाध्ययननियमादृष्टस्य क्रतावनुपयोगान तनियमस्य विधिफलत्वसम्भवः । भवेदप्यधीतविध्यर्थज्ञानस्य वि- हितकर्मणि नियमः न त्वधीतनिषेधार्थज्ञानं निषिद्धकर्मणि निय- (१) अङ्गद्वारेणैवं प्रधानशेषभूतानाभित्यर्थः । (२) ऋतुविशेषमारभ्य तत्प्रकरणे अध्ययनविधेरपाठात् कथम- पूर्वोपस्थितिसम्भवः तदभावे च नापूर्वसाधनमर्थज्ञानमध्ययनविधिः फलत्वेन स्वीकर्तुं शक्नोति. कथश्चित्तदुपस्थित्यङ्गीकारेऽध्ययनस्य क; त्वङ्गत्वापत्चिरित्यर्थः।