पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्राशस्त्यस्य लक्षणयालाभकथनम् । स्वार्थप्रतिपादने प्रयोजनमनुपलभमाना लक्षणया योगित्वं, सकृत्पयोजकवाक्यश्रवणेनोत्पन्नप्रवर्त्तनाज्ञानस्याऽऽल- स्यादिवशेनाऽपवर्तमानस्याभ्यासादिलिङ्गवशादमुष्येष्टहेतुतां ता- त्पर्येणाऽयं बोधयतीति निर्णीतवतः प्रवृत्तिदर्शनात् । यद्यप्य- ध्ययनविधिना वेदवाक्यानां सामान्यतः प्रयोजनवत्यर्थे तात्पर्य बोधितं तथापि च तत्तद्विधिभिः स्वविषये पुम्प्रत्यर्थ विशेषतस्ता- त्पर्योपस्थित्यपेक्षायां अर्थवादैस्तदुपस्थाप्यते विधिविहितः पदार्थ इव प्रयोगकाले मन्त्ररिति ज्ञेयमित्याहुः । लक्षणयेति । स्वार्थप्रतीतिजन्यप्रतीतिविषयत्वं लक्षणाघटकस- म्बन्धः दृश्यते हि विधेयगतसदसद्गुणप्रत्यायने विधेयसम्बन्धिगत. सदसद्गुणप्रत्यायने विधेयान्यनिन्दापत्यायने विधिसमभिव्याहृत- विधेयनिन्दापत्यायने वा विधेयप्राशस्त्यप्रतीतिः “वायुर्वै क्षेपिष्टा दे. वता,"न स पापंश्लोकं शृणोति" इति “आपौवे शांता""यदष्टाक- पालो भवति, गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति" इति “यद- भिधारयेद्रुद्रायास्ये पशूनिध्यादथो खल्वाहुरभिघार्या एव" इत्ये- वमादौ, तादृशसम्बन्धस्य च सर्वपदार्थेषु पर्याप्तत्वात्सर्वपदेषु प्रा. शस्त्यलक्षणा। स्यादेतत् अनन्यलभ्यं हि प्रयोजनं वक्तुमुचितं “वसन्ताय कपिञ्जलान्" इत्याद्यर्थवादशून्यविधिवच्च सर्वत्र विधिभ्य एव प्राश- स्त्यलाभात्तल्लक्षणायामप्यानर्थक्यं तदवस्थं,किश्च पयाजादिविधी- नामननुष्ठापकत्वात्(१) “वर्मवाएतत्" इत्यादिजनितप्राशस्त्यबोध- स्य न तदनुग्राहकत्वं नापि तदनुष्ठापकधानविध्यनुग्राहकत्वं तत्सं- निधिपाठाभावेन तच्छेषत्वासम्भवात् ततश्च कृतायामपि लक्षणा- (१) प्रधानविधेरेवाङ्गानुष्ठापकत्वसत्वेन प्रयाजादिविधीनां कर्म- स्वरूपबोधकत्वमेवेति न तदर्थवादानां तदनुग्राहकस्वसम्भक इति ।