पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाशस्त्यपदार्थकथनम् । ४३ शब्दभावनाभाव्या भावनां निर्वर्तयति, कुठार इव च्छेदनम् । अतो लिङादिज्ञानस्य करणत्वेनान्वयः। इतिकर्तव्यताकाङ्क्षायां प्राशस्त्यज्ञानमितिकर्तव्य- निवर्तकत्वेन कथ्यत इत्याशयः । इतिकर्तव्यतात्वेनेति । यथा हि यागेन स्वर्गे जनयितव्येऽपेक्षितोपकारं कुर्वतः प्रयामादे. रितिकर्तव्यतात्वं यागभावनायां, एवं विधिज्ञानेन प्रवृत्तौ कर्त्तव्या- यामपेक्षितः प्रवृत्तिप्रतिबन्धकाऽऽलस्यादिनिवृत्तिरूप उपकारः प्रा. शस्त्यज्ञानेन क्रियत इति भवति तस्येतिकर्तव्यतात्वं प्रवर्तनायाम्। पाशस्त्यपदार्थश्च यद्यपि नेष्टसाधनत्वं तद्धि विधिबोधि- तमेवार्थवादैर्वोध्येतान्यद्वा ? आये वैय्यापत्तेः द्वितीय वेदतात्पर्य- गोचरस्य तात्विकत्वावश्यंभावनौदुम्बराधिकरणादौ कृतस्योर्गवरो. धादिफलीनराकरणस्यानुपपत्तिः,(१) नाप्यनिष्टाननुबन्धित्वं तद्धि प्रवृत्तिप्रतिबन्धकालस्यहेतुदृष्टश्रमाद्यननुवन्धित्वं, अदृष्टानिष्टान्त- राननुबन्धित्वं वा, आये बाधः । अन्त्येऽप्रसक्तमतिषेधः श्येनाद्यर्थ- वादेष्वसम्भवाच्च,(२) तथापि पाशस्त्यं नाम गुणवत्वं यथा च ज्ञा- जनकस्वभावे शब्दे ज्ञानगतयाथार्थ्यात्मकातिशययोजक आ- सोच्चरितत्वादिधर्मः पूर्वैर्गुण(३) इत्युच्यते एवं फलगताक्षपत्वाय. (१) औदुम्बरोयूपोभवत्यूर्वा उदुम्बर ऊपशव ऊर्जेवास्मा ऊर्ज पशूनाप्नोत्यूर्जाऽवरुध्य इत्यादौ यूपौदुम्बरतायाः न फलमूर्गवरोधादि- कमुपदिश्यतेऽपि तु स्तुतिरित्यादरसङ्गतत्वापत्तेन विधियोधितान्य- स्येष्टसाधनत्वादेरर्थवादैबोधसम्भवः। (२) श्शेनयागस्य परम्परया ऽदृष्टनरकरूपानिष्टजनकत्वेन अ. निष्ठा ऽननुबन्धित्वस्य यथा वैश्येनो निपत्यादत्ते एवमयं द्विषन्तं भा. तृव्यं निपत्यादत्त इत्यर्थवादेन बोधासम्भवादित्यर्थः । (३) नैयायिकादिमते शानप्रामाण्यस्य. परत एवोत्पद्यमानत्वेना. सोचरितवाक्यादेव प्रमोत्पद्यते इति. प्रमावप्रयोजकं आप्तचरितत्या.