पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- वक्ष्यमाणांशत्रयोपेताऽर्थीभावना साध्यत्वेन सम्ब- ध्यते, एकप्रत्ययगम्यत्वेन समानाभिधानश्रुतेः । यद्यपि सङ्ख्यादीनामप्यकप्रत्ययगम्यत्वं समानं तथा- ऽप्ययोग्यत्वान्न तेषां भाव्यत्वेनान्वयः । करणाका- सायां लिङादिज्ञानं करणत्वेन सम्बध्यते । तस्य च करणत्वं न भावनोत्पादकत्वेन सन्निकर्षस्येव रूपादिज्ञाने, सन्निकर्षात्प्राक् रूपज्ञानस्येव लिङादि- ज्ञानात्माक् शब्दधर्मभावनाया अभावप्रसङ्गात् , कि तु भावनाभाव्यनिर्वर्तकत्वेन । लिङादिज्ञानं हि ति व्याख्येयम् । सम्बध्यत इति । भावना साध्यता प्रतिपद्यते इत्याशयेन न तु तस्याः साध्यत्वेनान्वयोबोध्यत इत्याशयेन । एव- मपि । अंशत्रयग्रहणेपि करणेतिकर्चव्यतयोरेव प्रवर्तनाभाव्यशरीरे निवेशः, न भाव्यस्य । एकति । अध्ययनविधिनाऽर्थाद्यजेतेति लिडं पुरुषप्रवर्सने प्रवक्रयता तत्समानाभिधानश्रुत्यवगतभावना- या एवोद्देश्यत्वेन स्वीकरणादित्याशयः । लिङादीति । आदिना प्रवर्त्तनामवय॑तत्संसर्गाणां सङ्ग्रहः। अयमदृशं पुरुषं प्रवर्त्तयतीति झानं छुक्तन्यायेन समुद्भूतं करणतां प्रतिपद्यते । यद्वा लिडादि का. रणं यस्य तच्च तत् ज्ञानं चेति विग्रहः। लिङ्शब्देन यजेतेति प्र. कृतस्य परामर्शः । तज्जन्यमेव प्रवर्त्तनाज्ञानं फलपर्यन्तां प्रवृत्ति जनयितुमलम् । न लौकिकशब्दान्तरजन्यम्, शास्त्रपरिमाणवादिति न्यायादित्याशयः। सर्वलिङ्जन्यज्ञानानामादिभूतमुपजीव्यं यत् ज्ञा. नंलिप्रवर्तनाभिधायीति सम्बन्धज्ञानमिति यावत् तत्करणमित्य- पि कश्चित् । भाव्येति । भाव्यनिर्वर्तकं तद्विशिष्टात्मना भावनाया