पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शब्दभावनायाअंशत्रयंकथनम् । तावतैवोपपत्तौ प्रमाणान्तेरणार्थमुपलभ्य रचितत्वक- ल्पनानुपपत्तेश्च । ततश्च पुरुषाभावाच्छन्दनिष्ठेव सा । अत एव शाब्दीभावनेति व्यपदिशन्ति । सा च शाब्दी भावनांऽशत्रयमपेक्षते, साध्यं साधनमितिकर्तव्यतां चेति । तत्र साध्याकाङ्क्षायां व्याप्तिग्रहाभावेन स्तनपानादिप्रवृत्त्युपयोगीष्टसाधनतानुमित्यंस- म्भवापत्तेः धर्मादिशून्यस्य सुखाद्यभावप्रसक्तेश्च । नच भवदभिमतो वेदनिर्मातेश्वरोऽसर्वज्ञो येन गतकल्पस्थानुपूर्वीमज्ञानाद्वक्तुमशक्नु- वन्नभिनवं वा रचयतीत्युच्यतेति पञ्चम्यन्तद्वयाशयः । यद्यपि परै- नित्यज्ञानवानीश्वरोऽभ्युपगतः तथाप्यनुमानासिध्यन्नीश्वर उक्त- न्यायेन जन्यज्ञानवानेव सिध्येत् स्वीकुर्वन्ति च केचित्तं तथाभूतं "स इक्षांचक्र" इत्यादि श्रुतिभ्यः इत्यभिप्रेत्य स्मृत्वेति प्रमा- णान्तरेणोपलभ्येति चोक्तम् । अपेक्षत इति । यजेतेत्यत्रार्थभावनायामिव शाब्द- भावनायां करणाद्यात्मना स्वांशान्वयप्रतीत्यै नायमपेक्षोपन्या- सः प्रवर्तनागोचरपवर्तनान्तराभावेन कर्त्तव्यत्वेनापतीयमाना- यास्तस्या इतिकर्तव्यतान्वयासम्भवात् पाशस्त्यविधिज्ञानयोः क- रणेतिकर्तव्यतात्मनाऽन्वयाननुभवाच्च । किन्तु यजेतेत्यादिवि- धिवशात्पुरुष इव स विधिरप्यध्ययनविधिवशाद्भावनामनुतिष्ठन्की- दृशभाव्याद्यन्वितां भावनामनुतिष्ठतीति जायमानाऽऽकाङ्क्षाऽत्र नि- दिश्यते । यथाहि विहितव्यापारमनुतिष्ठतां ज्ञानवतां भवत्याकाङ्क्षा किममुष्य व्यापारस्य साध्यादीति तथैषापि । तत्रेति । किमस्यां साध्यत्वेन सम्बध्यते इत्याकासायां वक्ष्यमाणेत्याशुत्तरं देयमि-