पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालकारसहितमीमांसान्यायप्रकाशे- “वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् । वेदाध्ययनसामान्यादधुनाध्ययनं यथा"(१) ( वा- क्याधिक० श्लो० वा० ३६६) इत्यादिना वेदापौरुषेयत्वस्य साधितत्वात् । “यः कल्पः स कल्पपूर्व” इति न्यायेन संसार- स्यानादित्वादीश्वरस्य च सर्वज्ञत्वादीश्वरो गत-- कल्पीयं वेदमस्मिन् कल्पे स्मृत्वा उपदिशतीत्ये- इति श्रुतिवचेनाग्न्यादिकर्तृकत्वं वेदेषु बदद्भिः परैरपि इत्थमेव समाख्यार्थोवर्णनीयः । नचैतच्छुतिवशेनैव तत्सिद्धिः अस्या विध्य- न्तरशेषत्वेन स्वार्थे तात्पर्याभावात् (किं परोचेष्ट्रा) उच्चैष्वादिस्तुति- परत्वात् । एतेन मन्त्रार्थवादेभ्यः सृष्टिप्रलयसिद्धिनिरस्ता तेषा- मपि विध्यन्तरशेषत्वेन स्वार्थे तात्पर्याभावात् किंपरो धर्म इत्या- दिपयोमाच्च तादात्मकं तात्पर्य वेदेप्यविरुद्धं यत्पतीत्यर्थं यदा- क्यं तत्परं तदिति तादर्थ्य च न पुरुषव्यापारघटितमिति वक्ष्यामः। अभ्युपेयापि अनुमानात्सृष्टिपलयेश्वरसिद्धिं न वेदस्य पौरुषेय- त्वमित्याह । यः कल्प इति । संसारसादित्वे ह्यभिनवानुपूर्वीविर- चनमवश्यमभ्युपेयं स्यात् । नच तत्सम्भवति प्रथमोत्पन्नप्राणिनो- (१) यद्यपि कर्तुरस्मरणात् सम्बन्धस्य कृतकत्वं परिहृतं त. थापि न वेदानां परिहृतं इत्यत उक्तं “सम्बन्धाकारणन्यायाद्वक्तव्या वाक्यवित्यतेति' । तुल्यन्यायत्वाद्वदानामपि कृतकत्वं परिहृतमेवेत्य: र्थः । ससातत्वरूपोहेतुः सत्प्रतिपक्षितश्चेत्याह । “सङ्घातत्वस्य ध. कन्यमीदृशं प्रतिसाधनम् । वेदस्येत्यादि" । नन्वेवं भारतादिवपि श- एवं वक्तुं सत्यं तत्तु दृढेन कर्तुः स्मरणे न बाध्यते तदाह"भारतेऽपि मवेदेवं कर्तृस्मृत्या तु बाध्यते"। ननु तर्हि वेदेपि केचिसुस्मरन्स्ये कारमत माह "वेदेऽपि तत्स्मृतिर्या तु सार्थवादनिबन्धना" इत्या. दिवानिकमनुसन्धेयम्।