पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदापौरुषेयत्वकथनम् । तथाभूतस्यापि स्वमस्यार्थक्रियादर्शनेन तस्यास्तथाभूतत्वव्यभि- चाराच्च । एतेन शाब्दबोधस्याऽऽतवाक्यजन्यत्वमन्तरेण न प्रा- माण्यमित्यपि निरस्तम् । प्रामाण्यघटकयावत्पदार्थानां उक्तविधया प्रकारान्तरेणैव सिद्धेः । नच वेदार्थे मिथ्याप्रत्ययः स हि स्वर्ग- फलकविधिषु क्षणिककर्मणः आमुष्मिकफलत्वानुपपत्या स्यात् । निरस्ता चैषा ऽपूर्वाधिकरणे । चित्राकारीर्यादिविधिषु चाऽनन्तरं फलानुपलम्भात् स्यात् । घटते च तदर्थसत्यत्वेपि चित्राफलस्या- नन्तरमनुपलम्भः चातुर्थिकन्यायेन तस्य ऐहिकामुष्मिकत्वात् कारीरीफलस्य तु ऐहिकस्वभावस्यापि वैगुण्यादनन्तरमनुपलम्भ- सम्भवः पदपदार्थसम्बन्धस्य पौरुषेयत्वं निरस्तं प्राक् । वाक्यवा- क्यार्थसबन्धे तु पौरुषेयत्वं द्वेधा सम्भवति वाक्यस्य वाक्यार्थे सङ्केतात्मकशक्तिस्वीकारावा काश्यपीयमतानुसारेण वाक्यार्थानुमा पकस्य वाक्यस्यानुमापकतानिर्वाहकसंवन्धे पुरुषप्रत्ययनिरूपित- तत्वाद्वा, तत्र वाक्यं तावत् पदसमुदायः एकार्थप्रतीतिजनकत्वो- पाधिना पदेष्वेकवाक्यत्वप्रतीतिसम्भवेन तदतिरिक्तस्य वाक्यस्य निष्पमाणकत्वात् । इत्थं चाकासादिमत्पदोपस्थापितपदार्थेभ्य एवं लक्षणया वाक्यार्थप्रतीत्युपपत्तेः । नच तत्र शक्तिमङ्गीकुर्मः नतरां सङ्केतत्वं तस्याः । न च सम्भत्यनन्तवाक्यार्थेषु कस्यापि सङ्केतः । दृश्यते च पुरुषप्रत्ययमनपेक्ष्य श्रुतमात्राल्लोकवाक्यादपि बोध इति न द्वितीयोपि । तस्माद्वेदस्य प्रकारान्तरेणापामाण्यशङ्काया अस- म्भवात्पौरुषेयत्वेनैवापामाण्यं इत्यन्त्यः पक्षोऽवशिष्यते । नच पौरुषेयत्वमुक्तानुमानासिध्यतीत्युक्तम् । नच समाख्यानात्त- सिद्धिः कठादि'विशेषवृत्तिप्रवचनांतिशयेन केनापि तदुप- पत्तेः कठचरणैः पुरुषैः परम्परयाऽधीयमानत्वेन वा तत्सम्भवात् । तदुक्तं "आख्याप्रवचनाद्" इति(१) "तेभ्यस्तपस्तेपानेभ्य" (१) जै० सू० १ अ० १ पा०। ..