पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहित मीमांसान्यायप्रकाशे- प्रति कारकहेतुमेव वदति । पारंपर्येण च तत्त्वं सम्भवति ज्ञापकाज्ञा- पकयोः । नच ज्ञापकस्येन्द्रियादेवि कथं कारकत्वमिति शङ्काम् । अवघातादेरिव ज्ञापकानामपि केषां चिद्धर्म प्रति नियमविधि- ना तादावगमात् । तावता च प्रकृतहेतुतानिर्वाहात् । एवं ना- खिलवेदस्य धर्ममूलवासम्भवः । धर्ममबोधयतामपि श्येनादिवाक्या नां निषेधानां च पारायणब्रह्मयज्ञादिनिवर्तनद्वारा धर्म प्रति का- रकत्वात् । प्रायश्चित्तविध्यपेक्षितनिमित्तसमर्पकत्वेन विद्वद्वाक्यवत्पा- रम्परया धर्मप्रमोपयोगाच । सम्भवति च नानाशाखाविप्रकोण- मूलश्रुतिविदामपि मन्वादीनां तादृशश्रुत्यन्वेषणाशक्तत्वेन निर्णी- तपुरुषेष्वनुकम्पया स्मृतिप्रणयनप्रवृत्तिः । तात्विकश्रेयःसाधन- त्ववोधिकाया अपि बाह्यस्मृतेस्तादृशश्रुत्यन्वेषणाशक्तत्वे वो धद्वारा धर्म प्रत्यकारकत्वाच्छक्यत एवोक्तविधधर्ममूलत्वाभावोऽपि बोधयितुम् । धर्ममूलशब्दस्य ज्ञापकाज्ञापकसाधारणकारकहेतुपरत्वा- द् । एवं च रागद्वेषप्रहाणात्मनो ब्रह्मण्यताद्यात्मनो वा शीलस्य निर्वतकतया धर्ममूलत्वमिति व्याख्यासम्भवः । नच मनोजयवि- धायिवचसा पौनरुक्त्यम् । रागद्वेषप्रहाणस्य सर्वधर्ममूलताया अ- सिद्धेः । न च वेद विदां बढूनां चित्तप्रसादः शीलमिात व्याख्यायां कैमुतिकन्यायेन शीलोपन्यासवैयर्थ्यम् । इहात्मपदात्स्वस्य च प्रि- यमात्मन इत्यत्र स्वपदाच्चैकपुरुषप्रसादस्य स्वचित्तप्रसादत्वे- नैव प्रामाण्यागतौ पुरुषान्तरीयप्रसादस्य प्रामाण्यामिद्धेः । ना पि शीलं समाधिरिति मेधातिथिव्याख्यायां तदापत्तिः । इदानी- न्तनवेदार्थविदां मध्ये य एवोक्तविधसमाधियुतस्त-स्मृतिः प्रमाण- मन्या स्मृतिस्त्वप्रमाणमिति विवेकप्रयोजनत्वात् । नच 'आचारश्चैव साधूनाम् इत्येवंरूपाया एव सर्वाचारसाधारणश्रुतेरङ्गीकारणाचार- प्रामाण्ये विशेषरूपविषयमूलश्रुतिशून्याचारस्यानुसरणीयत्वाप- त्तिः । लोभादिदृष्टमूलत्वनिर्णयाभावे श्रुतिमूलत्वाभावनिर्णया