पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मतिप्रामापव्यवस्था । ५०३ तु एवं नानाशाखाविकीर्ण'प्रत्यक्षवेदवचोमलत्वं निरूपयि- तुम् । स्मृतिमूलविज्ञानात्मक कार्यलिङ्गकात्कारणसामान्यानुमाना- प्लाघवतकहतुकपरिशेपसह कृतात्सिद्धस्य मूलभूततादृशवेदस्यानुप- लम्भेन निरासायोगात् । नहि भ्रमविप्रलम्भौ शक्यानुमा- नौ । चिरमनेकपुरुषेषु भ्रमकल्पनायां गोरवातिशयात् । नच प्रत्यक्षश्रुतिविरोधो ऽन्यायमूलता वाऽष्टाकदिस्मृतिष्वस्ति, येनो- तानुमानबाधोऽर्थान्तरता वा सम्भावता स्यात् । उत्सन्नश्रुति- मूलकत्वेऽपि श्रुतेस्तदुत्सादस्य च कल्पनायां गौरवात् । नित्यानु- मेयश्रुतिमूलत्वेऽपि तत्तत्पुरुषीयश्रुत्यनुमानलिङ्गभूतानां श्रुतिकल्प- नागौरवात् । यदि परं स्मृतिका आपस्तम्वेन तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्त इत्येकेन स्मृतिव्याख्यात्रा च हरदत्तेन स्मृती- नामुत्सन्नवेदमूलत्वाभिधानात्तच्छाखीयत्वेन मुनिव्यवहृतस्यापि विधेः कस्य चित्तच्छाखायामनुपलम्भाचोत्सनवेदमूलत्वं स्वी- 'क्रियते । तथा नित्यं मन्त्रार्थवादानुमेयश्रुतिमूलकानां कासांचि- त्पादिस्मृतीनां दर्शनादाकरेऽपि कल्पसूत्राधिकरणे स्मृतीनामौ- त्सर्गिकतया मूलश्रुतिमूलकत्वनिरूपणात्ताशनित्यानुमेयश्रुतिमूल- कत्वमङ्गीक्रियते । स्वीक्रियतामनियमेन | नच तचीदृशश्रुतिमूलक- मेवेति नियमः शक्यनिर्वचनः । 'प्रतिसम्बत्सरं सोमः पशुः प्रत्य- यनं तथा इत्यादीनां प्रत्यक्षश्रुतिमूलानामपि स्मृतीनां भूयसी- नामुपलम्भ त् । अत एव न्यायमूलकत्वेन निर्णीतस्मृतिदृष्टान्तेन स्मृतित्वादेदमूलत्वानुमानं निरस्तम् । यत्तु 'वेदोऽखिलः' इत्यादेन वेदमूलत्वमिति । तन्न । 'पुराणन्यायमीमांसा' इत्यादिवर्दस्यापि वचनम्यैतान्त्येव धर्ममूलानीति नियमपरत्वात् । नियमस्य चालौ- किकत्वेन वेदपूलत्वावश्यम्भावात् । नचैतद्वाक्यार्थस्य न्याय- तः सिद्धौ नियमपरत्वमस्य स्यात् , दुर्निरूपस्त्वयं न्यायेन इति वाच्यम् । तथाहि धर्ममूल शब्दस्तावदिह साक्षात्पाम्पर्येण वा धर्म