पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- अस्याश्चाष्टकादिस्मृतिवत्प्रामाण्याद् स्मृतेः ष्टिः, यत्कर्म द्रव्यशुद्ध्यादिमनस्तुष्टिपरिच्छिन्नतया विधीयते, यथा स्मिन्कर्मण्यकृत मनसः स्यादलाघवं तत् कुर्याद्यावत्तुष्टिकरं भवेदिति तस्य निश्चये मनस्तुष्टिमूलम् । अनेन साधयामीति मनःकम संकल्पः । तज्जः कामः कर्मचिकीर्पा । सोऽपि धर्मनिश्चये । 'यदेन श्रद्धापनमेदथादधीत' 'श्राद्धं प्रति रुचिश्चैव'इत्यादाविति। तदपिनि रस्तम् । यया रीत्या मनस्तुष्टिसंकल्पजकामयोधर्ममूलत्वमिह वित्र क्षितं तया रीत्योदाहतप्रातिस्विकविधिभिरेव धर्ममूलतया तयोः सिद्धावस्योपदेशस्य वैयात् । अतः स्मृतिप्रक्रमगतवाक्यानाम- प्रामाण्ये तदृष्टान्तेन दृढं स्मृतीनामप्रामाण्यम् । अथ ‘यत्किंच मनुर- वदत्तद्भपजम्' इति श्रुत्यैव मनुस्मृतेः प्रामाण्यकथनानापामाण्यशङ्कति चेत् । न । सोमारौद्रयागप्रकरणपठितस्य मानवी ऋचौ धाय्ये कुर्या- द्'इत्यस्य विधेः समीपाम्ना तस्य 'यदै किञ्च'इत्यस्य स्तुतिपरत्वे. न स्वार्थतात्पर्याभावात् । वदत्यथोंच्चारणकर्मणः शब्दस्यादृष्टार्थ- ब्रह्मयज्ञादिद्वारा दोषनिवर्तकत्वेन प्रामाण्यस्याप्युपपदेश । बव- रप्रमगन्दादिशब्दवन्मनुशब्दस्य श्रुतिसामान्यमानत्वेन विशेषपर- त्वासिद्धेश्च । एतेन 'सहोवाच व्यासः पाराशर्यः' इति श्रुतौ परा. शरपुत्रत्वमुपजीव्य व्यासस्य स्तुतत्वादचिन्त्यमहिमा पराशर इति माधोक्तं परास्तम् । अतः कथं व्यासप्रणीतेतिहासान्तर्गतस्य 'य- करोषि'इत्यादेः प्रामाण्यमत आह-अस्थाश्चति । चो यद्यपीत्यर्थः, पौरुषेयत्वाभ्युपगमार्थः । यद्यप्यस्याः पौरुषेयत्वं तथाऽप्यष्टकादि- स्मृतिवत्सम्भवत्येव प्रामाण्यमिति दृष्टान्तव्याजेन स्मृतिप्रामाण्य व्य- वस्थाप्यते । न तावद्वेद एव धर्ममूलमिति वदतां धर्मत्वेन स्मरण तादृशानां पारम्पर्येण तथा स्वीकरणं चाष्टकादिषु वेदमूलत्वं विना सम्भवति । उत्सन्ननित्यानुमेयवेदमूलत्वासम्भवेऽपि शक्य-