पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. भाट्टालङ्कारसहितमीमामान्यायप्रकाश- धितसत्यवदनात्मकस्वार्थैकदेशे स्यादप्रामाण्य मिति चेन्न । अवाह्य स्मृ- त्यनुष्ठापितसत्यवदनान्मकैकदेशे मन्वादिस्मृतिमामाण्यस्यापि वक्तुं शक्यत्वात् । नच शीलस्य पृथगुपन्यासः सङ्गच्छते । न तावत् 'नद्वि- दां च स्मृतिशीले' इत्यत्र हरदत्तेन शीलपदस्याचारतंया व्याख्या- नादिहापि शीलपदमाचारपरामिति शक्यम् । आचारश्चैव साधूना- मित्यनेन पौनरुक्त्यात् । नच शीलं रागद्वेषप्रहाणम्, तच्च न ज्ञापक- तया धर्ममूलं किन्तु निर्वर्तकतयेत्यस्यार्थ इति गोविन्दराजोक्तं साधु । एकस्य धर्ममूलशब्दस्य वेदादिविषये शील विपये च भिन्ना- थबोधकत्वायोगात । मनोजयविधाय्यीग्रवच:पानरुत्याच्च । एतेन 'ब्राह्मण्यं, वेदपितृशक्तिता, सौम्यता, ऽपरोपतापिता, उनसूयता, मृदुता, पारुष्यं, मैत्रता पियवादित्वं कृतज्ञताशरण्यता प्रशांनिश्चेति- त्रयोदशविध शीलम्'इति हारीतापदिष्टमिह शीलपदार्थ इति कुल्लूक- भट्टोक्तं निरस्तम् । अस्यापि धर्मनिर्तकत्वोपदेशे पूर्वोक्तदोषानपा- यात् । यत्तु वेदविदां बहूनां चित्तप्रसादः शीलं धर्मे प्रमाणं स्मृते- दुर्वलमाचाराच प्रबलम | निनिवन्धनवामिथ्याप्रसिद्धिमूलत्वेना- नाशङ्ख्यत्वाच्च । आत्मतुष्टिस्तु वेदविद एकस्य चित्तप्रसाद उक्त- मानान्तरेभ्यो दुर्वल इति सर्वज्ञनारायणीयं व्याख्यानम्, तद. प्य युक्तम् । एक पुरुषीयप्रसादस्य प्रामाण्योक्तो कैमुतिकन्यायेन बहुपुरुषीयप्रसादस्य प्रामाण्यसिद्ध्या शीलोपन्यासस्य वैया- पत्तेः । स्यादेतत् । . अन्यविषयव्याक्षेपपरिहारेण शास्त्रार्थनि- रूपणप्रवणतारूपो मनोधर्मः शीलमुच्यते । 'शील समाधी' इति धा. तुपाठात् । मृतिशीले इति द्वन्द्वेन चोक्तशीले सापेक्षा स्मृतिधर्म प्रमा- णमिति कथ्यते । तेन वेदार्थविदामप्युक्तसमाधिशून्यानां स्मृतिर्ने प्रमाणमिति मेधातिथिव्याख्या स्वीकार्येति । मैवम् । यदि त्वस्माभिः स्मृतिकर्तृणां मन्वादीनां मध्ये के समाधिशून्याः के च तद्वन्त इति विवेकः कर्तुं शक्येत, तदोक्तसमाधिशून्यवेदवित्स्मृत्यनादरसिद्ध्यै -

K