पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९८ भाट्टालङ्कारमाहितमीर्मासान्यायप्रकाश- दृशबुद्ध्या कर्तव्यतया विधीयन्ते न त्वपूर्णणि कर्माणि, यच्छन्दो- पबन्धानुपपन्यापातात् । 'यथाश्रमं त्यक्तकामः' इति शास्त्रान्तराच । नचैवं स्वभावप्राप्तस्य गमनादेरपि भगवत्यर्पणाङ्गीकारे निपिद्धस्था पि दैवात्कृतस्य तदापत्तिः । देवतानां गुरूणां च मातापित्रोस्तु सर्वथा । पुण्यं देयं प्रयत्नेन नापुण्यं चोदितं कचिद् ॥ इति- माधवोदाहृतागिरोवचनाद अपुण्यशब्दस्याधर्मशब्दपर्यायवाद अर्पणशब्दस्य दानवाचितायाः प्रसिद्धत्वात् । ननु स्मृतिशब्देन यदि ज्ञानविशेषः, तन्मूलकं वचो वा विवक्ष्यते। उभयथाऽपि न तस्य प्रा. माण्यं सम्भवति । अनधिगतार्थगन्तृताया अभावात् । पौरुषेयवाक्य. स्यापि धर्मपामाण्यसंभवे वेदापौरुपयत्वसमर्थनस्य वैयथ्यापाताच । अथ स्वतन्त्रप्रामाण्यसिद्ध्यै तत् कृतम् ‘स्मृतीनां तु प्रमाणान्तरमुल- त्वेन पराधीनप्रामाण्यं ब्रूम इति चेत् । न । प्रत्यक्षमूत्र निरस्तधर्ममा. माण्यानां प्रत्यक्षादिलौकिकममाणानां मूलत्वासम्भवात् । श्रुति- रपि मूलत्वनोच्यमाना नित्यानुमेया वा स्यात्, उत्सना वा, इदा. नीन्तनप्रत्यक्षा वा । नाद्यः । अन्धपरम्पराप्रसङ्गात् । द्वितीयेऽपि स्मार्तधर्मनिबन्धनरूपायाः कस्याश्चिच्छाखाया एव तावनोत्मादो वक्तुं शक्यः । प्रतिवेदं शाखानां नियतमंख्यत्वात् । नापि नाना- शाखाविप्रकीर्णाः स्मृतिमूलभूताः श्रुतय उत्सन्ना इति शक्यं कल्प. यितुम् । अत्यन्तावहिताध्यतृकामु मात्रामात्रस्याप्युच्छेदासम्भवात् । न तृतीयः । अनुपलब्ध्या बाधितत्वात् । शाखान्तरीयत्वेन परमत्यक्षा यामप्युपलम्भकाभावेन पाठानुपलब्धिः मम्भवत्येवेति चेत् । प्रमा- णसिद्धस्यानुपलम्भे वक्तुमुचितमेवम् । नच स्वयंप्रत्यक्षतयाऽनुपल, भ्यमानाया अपि परप्रत्यक्षायाः स्मृतिमूलश्रुतेः सरचे प्रमाणपस्ति । न तावदनुमानम् । पौरुषेयत्रचसो वेदामूलकस्यापि लोके व्या करणे च दर्शनेन वेदमूलकत्वाविनाभावाभावात् । नच धर्मशा: