पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्व- ४९४ भाट्टालङ्कारसहितमीमांसान्यायप्रका- तत्र सोऽभिभूत इति चेत्, न । प्रकाशमाने प्रकाशनिवारणा- त्मकाभिभवस्य दुर्निरूपत्वात् । यत्तु केचिदाहुः-मुक्तौ बाह्यन्द्रियनिवृत्तावपि मनसोऽवस्थितेः स्वरूपसुखं मानसपत्यक्षेणानुभवन्नवात्माऽवतिष्ठत इति । तत्तुच्छम् । शरीरं विना मानसप्रत्यक्षासम्भवात् । 'अपनोऽवाग'इति मनसो ऽपि तत्राभावप्रतीतेश्च । न्यायसुधायामनौपाधिकात्मनो मुक्तप्राप्य- स्वसंकीर्तनेन मनोरूपोपाध्यवास्थितस्तत्र तदसम्मतत्वाचेति चेन्न । वायुविक्षिप्तदेशस्थितदीपप्रभावत्सांसारिकदुःखसम्वलितस्य रूपसुखप्रकाशस्य सतोऽप्यसत्त्वव्यवहारोपपत्तेः । निर्वायुदेशस्था- पिततत्प्रभावच्च मुक्तौ तत्माप्तिव्यवहारोपपत्तेरिति । उक्तं च- निजं यत्वात्मचैतन्यमानन्दचेष्यते च यः । यञ्च नित्यविभुत्वादि तेनात्मा नैवमुच्यते । इति । इतिन्यायसुधानुसारिणां पन्थाः । आत्मवादग्रन्थे मिश्रास्त्वाहुः-देहव्यतिरिक्तस्याविनाश्यात्मन औपनिषदं ज्ञानमध्ययनविधिसिद्धार्थज्ञानवल्लिङ्गात् पारलौकिक- फलक्रत्वङ्गम् । इत्याह नास्तिक्यनिराकारिष्णुरात्मास्तितां भाष्यकृदन युत्या। दृढत्वमेतद्विषयः प्रबोधः प्रयाति वेदान्तनिषेवणेन' ॥ इति-- वार्त्तिकोक्तेः। प्रदेशविशेषचिन्तनाद्यात्मकेतिकर्तव्यताविशिष्ठी- पासनानाम् अभ्युदयार्थत्यम् । शान्त्यादीतिकर्तव्यतोपेतोपासनाना काम्यनिषिद्धवर्जनसहितनित्यनैमित्तिकानुष्ठानसहितानां मुक्त्यर्थ- त्वम् । मुक्तिश्च भोगायतनभोगसाधनभोग्यात्मकत्रिविधवन्धस्या त्यन्तिको विलयः, नतु सुखप्रकाशः । 'अशरीरं वाव सन्तं न पियाप्रिये स्पृशतः' इति मुक्तौ पियस्पर्शस्यापि निषेधात् । 'विशातारमरे केन विजानीयाद् इति मुक्तावात्मप्रकाशनिवारणाश्च ।