पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- 'वेदानिमं च लोकममुं च परित्यज्यात्मानमन्विच्छेद्'इतिवेदोक्तकर्म- त्यागश्रवणान्न कर्मणां मोक्षहेतुत्वमिति सांप्रतम् । ज्ञानात्पूर्वमनुष्ठि- सानां ज्ञानेन सह मुक्तिहेतुत्वस्य ज्ञानपरिपाककालीनतत्यागेन सह विरोधाभावात् । यथा रोगिणं प्रति कश्चिद् ब्रूयात् 'प्रथममयं काथों ग्राह्यस्ततस्तं परित्यज्येदं चूर्ण सेव्यमेवं स्वास्थ्यं भविष्यति' इति । नचैवं सति चूर्णमेव स्वास्थ्यहतुर्न काथ इति शक्यं व क्तुम् । तथा ज्ञानपरिपाककाले कर्मणां त्यागश्रवणेऽपि न मोक्षहेतु. त्वानुपपत्तिः। उक्तं हि न्यायसुधायाम्-परिपकेन ज्ञानेनात्मनः कर्म- सम्बन्धो वार्यत इति । अस्तु वा तत्तत्फलकामनया कर्मानुष्ठानत्या- गाभिप्रायत्वं त्यागवचसाम् । अत एवोक्तं 'काम्यानां कर्मणा न्यासं सन्यासं कत्र यो विदुः इति । एवमपि ज्ञानादेव तु कैवल्यमिति श्रुतिवि- रोधोऽपरिहार्य इति चेत् । न । यदि रथन्तरसामा सोमः स्याद्'इयत्र रथन्तरेण स्वप्रतिस्पर्द्धिबृहया निवत् तत्वज्ञानवाचिज्ञानपदोत्तरैव- कारेण तत्प्रतिस्पर्दिनोऽतत्वज्ञानस्यैव निरासौचित्यात् । नन्वेव- मपि ज्ञानस्य मोक्षहेतुत्वे प्रामाणिके विविदिषावाक्याच कर्मणां ज्ञानहेतुत्वेऽवगते स्वर्गाद्यर्थं विहितरपूर्वस्येव मोक्षाय विहितैस्तच- ज्ञानस्य व्यापारत्वाश्रयणान्नानेयाग्नीषोमीयवकर्मज्ञानयोर्मोक्षे समु- च्चयसिद्धिरिति चेन्न । ज्ञानोत्तरमप्यनुष्ठेयानां नित्यादिकर्मणां मो- क्षप्रतिबन्धकदुरितनिरासपात्रार्थत्वेन मोक्षोपयोगिनां ज्ञानव्या- पारत्वासम्भवात् । करणतावच्छेदकरूपावच्छिन्नं यजनयित्वैव फलं जनयति तस्यैव व्यापारत्वनियमात् । ननु देहादिभिन्नजी- वात्मज्ञानस्योपनिषदस्यापि 'यदेव श्रद्धया करोति विद्ययोपनिष- दा' इतिवचने उपनिषच्छब्दोक्तस्यानेनैव वाक्येन लिङ्गेन वा क्र त्वयंता तावदाकरे सम्बन्धवार्तिकादौ 'कर्मप्रवृत्तिहेतुत्वमात्मज्ञा- नस्य लक्ष्यते' इत्यादिनोक्ता । अपहतपाप्मत्वादिसत्यकामत्वादिगु- अवदात्मनोत्तरस्य 'सोऽन्वेष्टव्यः स विजिज्ञासितव्यो मन्तव्यो बो-