पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृतिप्रामाण्यव्यवस्था । ४९१ भूतभ्रातृव्याभिभवं प्रत्येव ऋतूपकारप्रणालिकया साधनत्वाप- त्तेः । नच 'तरति शोकप'इसादौ विधिकल्पनेनापि ज्ञानमोक्षयोः सा- ध्यसाधनत्वोपपत्तिः । औपनिषदैर्ज्ञाने विध्यनङ्गीकारात् । परैरपि मिथ्याज्ञाननिवृत्त्यधीनजन्मनि मोक्षे तत्वज्ञानाधीनताया लोकसि- दत्वाभ्युपगमेन विधिकल्पनायाः कर्तुं ननुचितत्वात् । अत एव लो. कसिद्धसाधनत्वानुवादिनी श्रुतिर्न स्मासस्य कर्मसाधनत्वस्य बाधायालम् । नहि कर्मणां मोक्षसाधनत्वं ज्ञानस्येव लोकसिद्धा, येन स्मृतेरप्यनुवाद त्वं शङ्केत । अस्मन्मते तु सत्यपि ज्ञानाविध्याश्रयणे भिन्नावान्तर कार्यत्वेनैवोक्तरीत्या वाधपरिहारात् । तदाश्रयणफ- लं त्वनन्तरमेव वक्ष्यामः । तर्हि परमतेन लोकसिद्धं ज्ञानस्य मोक्ष- हेतुत्वं शास्त्रीयेण कर्मणां हेतुत्वेन बाध्यते इति कर्मणैव मोक्षसिद्धिरि- ति कर्पोक्तं साध्विति चेत् । न । अपूर्वाधिकरणन्यायेन लोकसिद्ध- वस्तुस्वभावानतिक्रमेणैव शास्त्रपतेः । लोके च मिथ्याशाननि- वृत्तेस्तत्वज्ञानाधीनत्वावगमातं । तामन्तरेण मोक्षासम्भवात् । अतो यथैव पश्यादिप्राप्तिहेतुत्वेन विहितं चित्रादि लोकावगततदेतुभाव शरीरादिसहितमेव स्वफलायालमित्यङ्गीक्रियते, तथैव मोक्षहेतुत्वेन विहितानि कर्माणि ज्ञानसापेक्षाण्येव तत्पापकणीत्वभ्युपेयम् । अव एव ज्ञानकर्मणोरन्यतरव्यतिरेकतोऽपि मोक्षाभावं दर्शयति श्रुतिः- 'अन्धं तमः प्रविशन्ति ये ऽविद्यामुपासते । सतो भूय इव ते तमो य उ विद्यायां रताः' ॥ इति । . अत्रोपासते रता इति चैकत्र निष्ठोक्त्या परव्यातिरेकः कथ्यते । तेनोभयनिष्ठा एव तमस्तरन्तीत्युक्त्या समुचितोभयमेव मुक्तिहेतुरित्युक्तं भवति । नच कर्मणां प्रतिबन्धकदुरितनि- रासेनान्यथासिद्धत्वान्न फलहेतुत्वमिति साम्प्रतम् । ज्ञानस्या- पि प्रतिबन्धकमिथ्याज्ञाननिवर्तकतायास्तुल्यत्वात् । प्रतिबन्धक निरासस्य व्यापारत्वकल्पनाया अपि समत्वात् । नच मुमुक्षु प्रति