पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- नच, 'कर्मणा' इत्यादिश्रुतिविरोधः । सामान्यप्रवृत्तायास्तस्यास्ताह- शार्पणबुद्धिशून्यकर्मविषयत्वोपपत्तेः । नापि तमेव विदित्वा' इति श्रुतिविरोधः । कर्मानुष्ठानसहितस्यात्मज्ञानस्याप्यस्माभिर्मोक्षजन- कत्वाभ्युपगमात् । यथोक्तं बृहदीपिकायाम्- ननु निःश्रेयसं ज्ञानाद्वन्धहेतोर्न कर्मणः । नैकस्मादपि तत्कि तु ज्ञानकर्मसमुच्चयात् ।। इति । नाप्येवकारश्रुतिविरोधः । तस्या मोक्षजनकीभूतज्ञाने त- च्छन्दोपात्तात्मभिन्नविषयनिरासार्थत्वात् । नापि 'नान्यः पन्था विद्यतेऽयनाय' इति श्रुतिविरोधः । तस्या एवकारबोधितनि रासानुवादत्वात् । एत्रकारसमभिव्याहृमनिषेधस्य सर्वत्र तथा- स्वदर्शनात् । अन्यथा वाक्यभेदाच्च । नन्वेवमपि श्रौतेन ज्ञानस्य मुक्तिसाधनत्वे कर्मणां मुक्ति साधनत्वस्मार्तस्य बाधः स्यादिति चेत् । न । मोक्षविरोधिपापानिवृत्त्युत्पनि कारिणां कर्मणां मोक्ष- विरोधिकर्तृत्वाद्यभिमाननिवृत्यर्थत्वप्रकाशनकारिणश्च ज्ञानस्य भि. भावान्तरकार्यत्वेन बाधविकल्पयोरनाशकात्वात् । अत एवोक्तं बृ- हद्दीपिकायाम्- निसनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयन् ।। वैराग्यात्पकविज्ञानः कैवल्यं भजते नरः । इति । 'यजेत स्वर्गकामः'इतिवज्ज्ञानस्य मोक्षसाधनताविधेः स्पष्टस्या- दर्शनाच । मानान्तरसंवादविसंवादहितेन 'तरति शोकमात्माविद्' इतीहशेनैव विधिशुन्येनापि वचसा तस्याः सिद्धिरिति चेत् । न । 'म- याजानुयाजा इज्यन्ते भ्रातृव्यस्याभिभूत्यै'इति वचसा प्रयाजानुया- जानां भ्रातृव्याभिभवार्थत्वापत्या फलवदफलन्यायेनाङ्गत्वासम्भवा- पत्तेः । प्रकरणसहायेन वाऽमुना सार्वकाम्यशास्त्रावगतदार्शिकफल-