पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- वनेति । सैव च यजेतेत्यत्राख्यातांशेनोच्यते भावये- दिति । तस्याश्च भाव्याकाङ्क्षायां स्वर्गादिर्भाव्यत्वे- न सम्बध्यते । करणाकालायां यागादिः करण त्वेन सम्बध्यते । प्रयाजादय इतिकर्तव्यतात्वेन । एवं च यजेतेत्यादिना स्वर्गायुद्देशेन यागादेर्वि- धानासिद्धं यागादेर्धमत्वम् । प्रयोजनमुद्दिश्य वेदेन कि- यितुं तस्या आख्याताभिधेयरूपप्रदर्शन पूर्वकमंशत्रयान्वयेन पूर्ण तया विध्यन्वयमापादयति सैव चेत्यादिना । विशिष्टभाव- नां विषयाकुर्वता च विधिना तद्वारा विशेपणीभूतस्य यागस्यापि विषयीकरणाल्लिप्साधिकरणन्यायेन चाविषयी कृतस्य स्वर्गादे- रुद्देश्यतयैव स्वीकरणासन्थारम्भोक्तधर्मलक्षणाक्रान्तत्वेन यागा- देर्धमत्वसिद्धिरिति । ग्रन्थार्थमुपसंहरनि-एवं चनि । अंशत्रयपूर्ण- तया भावनाया विध्यन्वये सतीत्यर्थः । अत्र केचित्कपिलगौतपादिप्रणीतशास्त्राणां मोक्षार्थतत्त्वज्ञान- जनकत्वात्परमपुरुषार्थपर्यवसायित्वं नतु जमिनिप्रणीत शास्त्रस्य, तत्प्रतिपाद्यकर्मणां मोक्षाजनकत्वात् । तदजनकत्वमेव कुत इति चेत् । स्वर्गादि फलान्तरोद्देशनैव कर्मणां विधिदर्शनात , 'न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः' इति मोक्षे कर्मज 'न्यत्वप्रतिषेधदर्शनात, 'तमेव विदित्वाऽतिमृत्युमति नान्यः पन्या विद्यतेऽयनाय' इति मोक्ष ज्ञानेकसाध्यत्व श्रवणाच्च । नच भगवदर्प- णबुद्ध्या ऽनुष्ठितानामपि तेषां मोक्षहेतुत्वम् । 'कर्मशुद्धिर्मदर्पणम्'इ- त्यादिशात्रवशेन भगवत्यर्पणस्य तत्तत्फलार्थकर्षवैगुण्यपरिहारार्थ- स्वेन कर्माङ्गत्वात् , परार्थतावगमे च फलश्रुतेरर्थवादत्वादित्याहुः । .