पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- रण्यादिति । यवत्व- त्य(१)र्थश्चति । व्यापारत्वं शक्यतावच्छे दकं मित्येतावनि तात्पर्षम, अन्योत्पत्यनुकूलत्वम्य तु शक्यतावच्छेद- कान्त वन प्रतीतिराक्षेपात्यन्यदेतत् । अत एवाह -करोतमिति । तत्कनुकव्यापाराभिधायित्वेनाख्यातस्य तत्कर्तृकत्वं यथैव चैत्रः पचतीत्यस्य पाकं नीति विवरणं दृश्यते, तथा स्थाली वि. भर्तीत्यस्यापि धारण करोतीति विवरणं दृश्यते, स्थाली पच- तीत्यस्य पाकं करोतीति । नच तन करोतेयत्नवाचित्वे सङ्गच्छत इत्याशयः । एतेन कृताकृतत्रिभागकर्तृव्यवस्थे अपि निराकृते । दृश्यते ह्ययनजातेऽपि कृतव्यवहारा यत्नाभाववति च कव्यव- हारः, अग्निना ऽद्य पाकः कृतः, अग्निः पाककर्तेति । यस्तु यनसाध्यत्वासाश्यत्वाभ्यां कचित्कृताकृतव्यपदेशः स यत्रसाध्ययोरेव योर्मध्येऽल्पयनसाध्येऽकृतत्वव्यपदेशव्यापा- रसाध्यत्वाविशेषेऽपि कचिद्यानन्यूनत्वेनैव स्वल्पव्यापारसाध्यत्वा- त्वादकृतव्यवहारोपपत्ते सम्भवी । यत्राश्रयत्वे तुल्येऽपि चैत्राश्वयोः स्वातन्त्र्यपारतन्याभ्यां यथा कर्तृकरणव्यपदेशव्यवस्था भवति चत्रोऽश्वन गच्छतीति नतु कदाचिदश्वचैत्रेण गच्छतीति, तथा करोतेयापाराभिधायित्वेऽपि ताभ्यामेव सम्भवति सा व्यवस्था । यथा च सत्यपि तदनुकूलव्यापाराश्रयत्वे तदभावविवक्षयैव स- म्भवति कर्तुत्वनिषेधव्यवहारो वातादिना स्पन्दमाने स्वातन्त्र्य- विवक्षयाऽनुभवति तस्मिन्नपि कर्तृत्वव्यवहारः, यथा तदीयस्पन्देन भने केनेदं भग्नमनेनैव नान्येनेति । अतो न व्यापारस्याख्यात- वाच्यत्वे किञ्चिद्वाचकं, प्रत्युत पाकानुकूलयनवत्वस्य चत्रेश्वरयो- स्तुल्यत्वाञ्चत्रः पचतीतिवदीश्वरः पचतीसपि प्रयोगापत्तियन- (१) करोत्यर्थोपीति पाठः । .