पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८४ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- नानुकूलत्वेन सामान्यतस्त्वाख्यातादेव । रथो प्राम गच्छतीत्यत्रापि आख्यातेन ग्रामप्राप्त्यनुकुलो व्यापार एव प्रतीयते । रथस्तथा गमने व्याप्रियते यस्मिन्व्या- पारे कृते गमनाद ग्रामप्राप्तिर्भवतीति प्रतीतेः । नत्वत्र गमनमात्रमाख्यातार्थः, तस्य धातुनोक्तत्वात् । तत्र को ऽसौ व्यापार इत्यपेक्षायां पूर्वोत्तरावान्तरदेशविमजन- रूप इति पश्चादवगम्यते । पूर्वेण प्रदेशेन विभज्योत्त- रेण संयुज्य रथो प्रामं गच्छतीति प्रयोगात् । उद्यम्य निपात्य कठारेण च्छिनत्तीतिवत् । एवं देवदत्तः प्रय- तत इत्यत्रापि देवदत्तस्तथा व्याप्रियते यथा प्रयत्नो भवतीति प्रयत्नानुकलो व्यापार एवाख्यातार्थो न तु प्रयत्नः । तस्य धातुनोक्तत्वात् । व्यापारविशेषापेक्षायां चेच्छादिः पश्चादवगम्यते उद्यमननिपातनवत् । तथा च सर्वत्रानुगतत्वादन्योत्पादनानुकूलव्यापारसामान्यमे- दर्शयति रथइति । चेतनकर्तृकक्रियावाचिष्वपि यतत इत्यादिषु परमत एव लक्षणाप्रसक्ति स्मन्मत इत्याह एवमिति । असिद्धक- कक्रियावाचिनो भवतीयादेः संग्रहार्थमुक्तं सर्वत्रति । उपपादिता हिं भवतीत्यादावयवभेदन प्रयोज्यप्रयोजकभेदमङ्गीकृत्य भावनाम- तीतिर्वार्तिक कृद्भिर्भावार्थाधिकरणे । वस्तुतस्तु यथैव भवतीत्यत्र भावनापतीत्युपपादनं बार्तिककारीयमतिशयार्थ तथैव हापि रथो ग- छतीत्यादिषु तदुपपादनमतिशयार्थमेव । नहि रथो गमनं करोति, पुरुषो यवं करोति,घटो भवनं करोतीति कस्याप्यनुभवोऽस्ति । अतो-