पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्थभावनास्वरूपम् । ४८३ एव चाख्यातार्थः । कुठारेण च्छिनत्तीत्याख्या- तश्रवणे हि भवत्येतादृशी मतिः कुठारेण तथा व्याप्रियेत यस्मिन्व्यापारे कृते कुठारात् छेदनं भवती- ति । एवं यजेत स्वर्गकाम इत्यस्यायमर्थः-या- गेन तथा व्याप्रियेत यस्मिन्व्यापारे कृते यागात्स्व- लॊ भवतीति। स च व्यापारः क्वचिदुद्यमननिपतनादिः, क्वचिच्चाग्न्यन्वाधानादिब्राह्मणतर्पणान्तः । कथंभा- वाकाङ्क्षायां विशेषरूपेण पश्चादवगम्यते । अन्योत्पाद- तदन्यथासिद्धिः । भवन्ति च यत्नत्ववद्रुत्ववादीनि जातय इति कथं गुरुत्ववादीनि विहाय यत्नत्वमेव शक्यतावच्छेदकत्वेन शक्य- मवधारयितुम् । भवतु सर्वाण्यपि शक्यतावच्छेदकानि व्यापा- रत्वस्य तु न तथात्वसिद्धिरिति चेत् । न । परस्परानपेक्षा- नेकशक्यतावच्छेदकाभ्युपगमेनानकवाच्यवाचकभावाभ्युपगममपेक्ष्य गुरुभूतैकशक्यतावच्छेदकाभ्युपगमन कस्यैव स्वीकमुचितत्वात् । अनेकपदार्थघटितोपाध्यात्मनो हि व्यापार- स्वस्यावच्छेदकत्वम्, तदाश्रयत्वमनेकेषां कल्प्यामिति गौरवं वाच्य. म् । आश्रयतावच्छेदकत्वं तु सर्वेषु पर्याप्तमेकमेव स्यात् । यत्नत्वा- घनेकावच्छेदकाभ्युपगमे त्वाश्रयित्वमप्यनेकत्र कल्प्यं सम्ब- न्धानेकत्वं चेत्यपि गौरवमिति हेत्वन्तरकथनार्थश्चः । व्यापा- रत्वस्याख्यातशक्यतावच्छेदकले लौकिकवैदिकवाक्ययोर्बोधप्रकार दर्शयति-कुठारेणेत्यादिना । आख्यातात्तु सामान्यत एवेति त्वेचा भिन्नक्रमौ । सामान्यमेवाहान्येति । सामान्यतोऽवगतस्य विशेषाकाला हि कथामेति व्यपदिश्यते । संभवति चैषा व्यापारत्वे विनैव लक्षणाम् । अचेतनक्रियावाचिषु सारख्यातेषु प्रतीतिनिर्वाह वाच्यवाचकभावस्य