पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ भाट्टालङ्कारसहितमीमांसान्यायमकाशे- वना, तन्मतेऽपि रथे गमनातिरिक्तव्यापागनुपलब्धे रथो गच्छतीति प्रयोगस्यौपचारिकत्वमेवेति । अतश्च यत्न एवार्थी भावना । यथाहुः- प्रयत्नव्यतिरिक्ताऽऽर्थी भावना तु न शक्यते । वक्तुमाख्यातवाच्येह प्रस्तुतेत्युपरम्यते ॥ इति । अन्ये वाहः-भवितुर्भवनानुकूलो भावक- व्यापारस्तावद्भावना । यस्मिन्व्यापारे कृते करणं फलो- त्पादनाय समर्थं भवति तादृशो व्यापार इति यावत् । स वोक्तम् । औपचारिकत्वमिति । आश्रयत्वे लक्षणेत्याश- यः । मिश्रपतमाह-अन्यत्विति तत्र व्यापारमात्रस्या- ख्यातवाच्यतां वक्तुं यत्तावन्मीमांसकानामाख्यातजन्यमतीति- विषयनिरूपणपरं वचः प्रागुक्तं तस्य सर्वव्यापारसाधारण्यं दर्शयति-भवितुरिति । स इति । व्यापारत्वविशिष्टपरामर्शः । व्यापारत्वमेव शक्यतावच्छेदकम् , यत्नत्ववद् व्यापारत्वस्याप्य- खण्डोपाधित्वेन जातितुल्यत्वात् । नच तस्याखण्डोपाधित्वे मा- नाभावः । श्रुत एव मधुररसः स्वाश्रये जलाभिलाषगोचरतां नय- तीति व्यवहारानुरोधेन तत्समवायतज्ज्ञानादेरवश्यवक्तव्यव्यापार- त्वस्य तज्जन्यत्वाद्यात्मत्वासम्भवनाखण्डोपाधेरेचौचित्यापातत्वा- दिति सूचनार्थ एवकारः । अस्तु वा गुर्वेव व्यापारत्वं तथाऽपि तदे- वावच्छेदकम,पचतीत्यस्मात्पाकयत्रस्येव हि पतति फलं वृक्षादित्या- दो गुरुत्वस्थ, स्रवति जलं गिरेरित्यादौ द्रवत्वस्य, व्रजति शरो मित्यादी वेगम्य, कम्पन्ते पत्राणि तरीरित्यादौ वायुसंयोगस्या- पि संशयनिवृत्त्या निश्चयोऽभ्युपेयः । अस्ति च गुरुत्वादौ वर्तमा- नत्वाद्यन्वयस्य फलवृत्तित्वादेश्च प्रत्ययो यतो नानुमानिकत्वेनापि ।