पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- विध्यर्यत्वे 'सन्ध्योपासनं ते इष्टसाधनं तत त्वं कुरु'इति सहप्रयोगानुपपत्तिरिति वाच्यम् । इष्टसाधनत्वस्य विशे- परूपेण विधिनाऽनभिवानात् । प्रवर्तनात्वेन रूपेणा- भिधानात । सामान्यशब्दस्य च विशेषशध्देन दृष्टः सह- प्रयोगः-पाञ्चालराजा द्रुपद इत्यादौ । तस्मात्समीहि- तसाधन तैव प्रर्वत्तनात्वेन रूपेण विध्यर्थः । सैष च तेन रूपेण शब्देनैवाभिधीयत इति शाब्दी भावना। उक्तवार्तिकस्यापि अयमेवाभिप्रायः । अभिधीयते सा ऽभिधा समाहितसाधनता सैव प्रवर्त्तनात्वेनाभिहि- ता पुरुषप्रवृत्तिं भावयतीति भावना, तां लिङादय आ- हुरिति । यथाऽऽहुः- पुंसां नेष्टाभ्युपायत्वाक्रियास्वन्यः प्रवर्तकः । प्रवृत्तिहेतुं धर्म च प्रवदन्ति प्रवर्तनाम् ॥ इति । तत्सिद्धं यजेतेत्यत्र लित्वांशेन शाब्दी भा- वनोच्यते । आख्यातांशेनार्थी भावनोच्यते इति । इति स्वरूपतो निषिद्धस्वरूपान्तरेणापि प्रतिपादनासम्भवात् । नहि घटो नास्तीत्यपमितप्रतिषेधस्य घटस्य द्रव्यमस्तीति द्रव्यत्वा- कारेण सत्त्वमा सम्भवतीति चेत् न । परावगतेष्टाविशेषसाधनत्व. प्रतिषधेऽपि दृष्टान्तरसाधनत्वस्य प्रवर्तनात्वेन प्रतिपादन सम्भवात् । यद्यपि तव नेष्टसाधनं तधाऽपीष्टसाधनमिति प्रयोगस्य सर्वधाऽप्यु- पहसनीयत्वात् । उक्तार्थे मण्डनसम्मतिमाह-यथेति । अभावा- दिखनन्तरं प्रकृत्यर्थभास्यभावनायामभेदान्वयापत्तेः, करणत्वा.