पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- नहि 'भक्षयेद्' इतिप्रय यगतमुक्तपकाराणामन्यतममपि प्रवर्तना- रूपमनुवदितुं योग्यम् , भ्रान्त्याऽपि प्राप्त्यभावात् । नहि निषेधान्त- गतः प्रत्ययः प्रवर्तक इति कस्य चिद्धप्रप्तम्भवः । क्लेशन तु तद्न्यो- पपादनमुन्नीवेत, यथोनीतं पुरस्तात् । शक्यते तु भक्षणगतेष्टपाध- नताया अनिष्टानवन्धित्वेनागृहीतायाः प्रवर्तनात्वभ्रमे सति लिङा तामन्ध निषेधोऽलेशेन बोधयितुम् यद् अन्नभोजनादाविव क- बञ्जभक्षणे ऽपीष्टहेतुत्वं प्रवर्तकत्वेन ज्ञातम्, तन्न तथा, कलञ्जभक्षण- प्राप्यष्टस्यानिष्टानुबन्धित्वादिति । नचैवमनिष्टानुवन्धीष्टसाधनत्वस्य प्रवर्तकत्वाद्यजेतेत्यादिलिडाऽभिधानापत्तिः । पदार्थभूतेष्टसाधनता- गतस्य प्रवर्त्तनात्वान्यधर्मस्य लिङा प्रतीत्यसम्भवेन वाच्यत्वस्य दु. निस्यत्वात् । प्रवर्तनात्वसामर्थ्य लभ्यत्वेनायिलभ्यत्वाच्च । इष्टहेतुता- यास्तत्वनैव लिङ्वाच्यत्वे परमेतद्गौरवं स्यात् । नच हि प्रवर्तना- त्वं हेतुः, स चानिष्टाननुबन्धित्व विशिष्टायामेव तस्यां विद्यते(१)। अनिष्टाननुवन्धीष्टहेतुत्वनिर्णयेनैव हि श्वर्तमाना दृश्यन्ते प्रेक्षाव- न्तः । विशिष्टाया एव वाच्यत्वे निषेध्यत्वोपपत्तेश्च । अन्यथाऽनिष्टा. नुबन्धिताया अशब्दार्थत्वेन तृप्तिरूपेष्टहेतुतायाश्च प्रत्यक्षसिद्धत्वेन निषध्यत्वासम्भवात् । अतो यागगतेष्टहेतुताया एच प्रवर्तनात्वेनैव विध्यर्थत्वमिसाशयः। ननु यागगतं कृत्यहत्वमेव भवतु तदर्थः । शक्यते हिं तन् प्रेक्षावत्प्रवृत्तिहेतुत्वेन निरूपयितुम् । इष्ट हेतुत्वानिष्टाननुबन्धि स्वाभ्यां कृत्य ईत्वमेव हि निणीय प्रवर्तन्ते प्रेक्षावन्तः । सम्भवति च कृत्यहत्वमनूच निषेधः । तत इष्टा हेतुत्वस्यानिष्टहेतुत्वस्य वाऽप- निपत्तिश्च । यथा 'पुत्रकामः सौर्य न कुर्वीत'. इत्यादौ कर्तव्यता- वचनो भावनायां पुरुषं प्रवर्तयतीत्यादिराकरग्रन्यश्चैवमनुमृतो भवतीत्याशङ्का निराकर्तुं हेत्वन्तरसमुच्चयाभिधायी चः । इदं तव कृत्यईमतः कुरु, यद्यपि न कृसह तथाऽपि कुर्वित्यादिप्रयोगोपपत्ते- (१) विधत्तइति पाठः।