पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ भाट्टालङ्कारसहितमीमामान्यायप्रकाशे- किं च शब्दे एको व्यापारः स्पन्दाद्यतिरिक्तः कल्पनीयः, तस्य च स्वप्रवृत्तौ पगधीनप्रवृत्तौ वा का- रणत्वेनाक्लप्तस्य प्रवर्त्तनात्वेन रूपेण ज्ञातस्य प्रवृत्त्य- नुकूलत्वम्, शब्दस्य च परनिष्ठव्यापारज्ञापकत्वेन क्लुप्त- स्य स्वनिष्ठव्यापारबोधकत्वम् , विधेश्च प्रवर्तकत्वनि- हाथ धात्वर्थस्य समीहितसाधनत्वमिति कल्पनादर- क्षिप्ततया तदुपपत्तेश्च । नन्वेवमपि 'यागो मा प्रवर्त्त पति' इति व्यवहारः स्वादिष्टसाधनतारूपपवर्तनाया यागाश्रित वादित्याशयाह-किंचे- ति। परमिति। नैमित्तिकं दृष्ट्वा निमित्तानुसरणं कार्य नतु निमि- तमस्तीति नैमित्तिकापादनं निमिचान्तराभावादपि तदुपपत्तेरिति । विषया इन्द्रियाणि स्वस्मिन्प्रवर्तयन्तीतिवदिष्टसाधनत्वेनावगतो- यागः स्वस्मिन्पुरुषं प्रवर्त्तयतीति संभवत्येव व्यवहार इति च संभ- वत्परिहारैकदोपाभ्युपगमो नेकदोषाभ्युपगमायुक्त इत्याशयः । न न्वर्थप्रतीत्युभयो लिकादिगतो यो ऽभिधाख्या व्यापारः, असावपि समीहितसाधनत्ववदावश्यक एव, कथमस्यैव प्रवर्तनात्वेन लिवा- च्यत्वं न स्वीक्रियते, एवं च 'अभिधाभावनामाहुः' इति वार्तिक- मक्लेशेनानुमृतं भवेन् । अभिधाशब्दस्य प्रसिद्धार्थस्त्रीकरणात् । कोऽसौ व्यापार इति चेत् , शक्तिरिति केचित् । परे स्वाहुः-यमागन्तुकं धर्म प्राप्य कार्याय पर्याप्तो भवति स तव्यापारः । ज्ञातश्च शब्दोऽर्थप्रतीत्यै पर्याप्तः, अतो ज्ञानमेव ध्यापारः । नच ज्ञाने कर्मीभूतस्य शब्दस्य ज्ञानात्मिकायामभिधायाँ कथं कर्तृत्वेन करणत्वेन वा व्यवहार इति शङ्यम् । एकस्या अपि क्रियायास्तत्फलावच्छेदलब्धतत्तद्धात्वभिधयत्वायाः कर्तृकर्मादि- चैचित्र्यस्पैकत्रापि सम्भवात् । दृश्यते शुद्यमनादिक्रियायाः कर्म- 7