पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाब्दभावनानिरूपणम् । तथैव शक्तिमहात् । प्रवृत्त्यनुकूलो व्यापारः प्रवर्तना । अपौरुषेये च वेदे प्रैषादेरसम्भवात्कश्चित्पुरुषप्रवृत्त्यनुकूलो व्यापारविशेषः कल्पनीयः । विधिशब्दाभिधेयप्रवर्त्तना- सामान्यस्य विशेषमन्तरेणापर्यवसानात् । 'तत्र को ऽसौ व्यापार इत्यपेक्षायां धात्वर्थावगतसमीहितसाधनत्वमेवेति कल्प्यते । तस्यापि प्रवृत्त्यनुकूलत्वात् । सर्वो हि समी- हितसाधनतां ज्ञात्वा प्रवर्तते । अन्यप्रेरितो यदीष्ट- साधनतां न जानाति तदा नैव प्रवर्तते । स्वतन्त्र- प्रेरणावादेऽपि तदाक्षिप्तसमीहितसाधनताज्ञानं स्वी- क्रियत एव । अन्यथा विधेः प्रवर्तकत्वानुपपत्तेः । अतश्नावश्यकत्वात्समीहितसाधनतैव प्रवर्तनात्वेन रूपे- ण विध्यर्थः । एवं च विधिशब्दस्यान्यनिष्ठव्यापारबो- धकत्वं लोकसिद्धं सिद्धं भवति । प्रेरणाज्ञानाच प्रवर्तत इति, तद्वैपरीत्यमपि संभवतीत्याशयेनाइ- अन्येति। आवश्यकत्वादिति । ज्ञातायाः समाहितसाधनतायाः प्रवत्तनात्वस्य परेणाप्यवश्यस्वीकार्यत्वादिति व्याख्येयम्, विशेष- रूपेणाक्षेपस्य स्वमते ऽप्यपरिहार्यत्वात् । एवंचेति । ननु प्रतिकू- लमेतत् । 'अयं मां प्रवर्तयति' इति यस्याः प्रतीतेः प्रसादेन प्रवर्तना- या वाच्यत्वसिद्धिः,तया यथा लोके प्रवर्तनायाः निष्ठत्वसिद्धिस्तथा तयैव वेदे तस्याः शब्दनिष्ठत्वसिद्धरिति चेत् न । लोके प्रवर्चना- याः शब्दनिष्ठत्वाभाचेऽपि एतच्छब्दो मां प्रवर्तयतीतिवत् वेदेऽपि शब्दनिष्ठत्वमन्तरेण तथा प्रतीत्युपपत्ते वैदिकालिज्बोधितत्वविशि- स्यैव यागादेः स्वर्गादीष्टसाधनताश्रयत्वेन लिङोऽप्याश्रयकोटिनि- . -