पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७२ भाट्टालङ्कारसहितामांसान्यायप्रकाशे- पारः प्रवर्त्तना । स च व्यापारः प्रैषादिरूपो विविध इति प्रत्येक व्यभिचारित्वादिधिशब्दवाच्यत्वानुपपत्तेः प्रवर्त्तनासामान्यमेव विधिशब्दवाच्यमिति कल्पयति । एवं च विधिश्रवण प्रैषादिरूपस्य वक्त्रभिप्रायस्य प्रवर्त्तनात्वेनैव रूपेण प्रतीतिर्न विशेषतया, तथैव शक्तिग्रहात । विशेषरूपेण तु प्रतीतिर्लक्षणयैव । एवं च वैदिकलिङादिश्रवणे ऽपि प्रवर्तनासामान्यमेव प्रतीयते । तत्र कोऽसौ व्यापार इत्यपेक्षायां प्रैषादिरूपस्य वक्त्रभिप्रायस्यापौरुषेये वेदे ऽनुपपत्तेः शब्दनिष्ठ ए- व प्रेरणापरपर्यायः कश्चिद् व्यापार इति कल्प्यते । अतश्च शब्दनिष्ठ एव प्रेरणापरपर्यायो व्यापारः शा- ब्दी भावना । सैव च प्रवर्तनात्वेन रूपेण विध्यर्थ- इति । अयमेव चार्थः-'अभिधाभावनामाहुरन्यामेव लिङादयः इतिवार्तिकस्य अभिधीयते अनयति व्युत्प- च्या ऽभिधाशब्देन शब्द उच्यते, तद्यापारात्मिका भावना लिङगदिवाच्यति केचिदाचार्या आहुः । अन्ये वाहुः । सत्यं प्रवर्तनासामान्यं विध्यर्थः तत्रैव वार्तिकं योजयति-अयमेवचेति । मिश्रमतमाह-अन्ये- त्विति । तस्यापीसनन्तरं ज्ञातस्येति शेषः । यत्तु प्रेरणाचादिभिरुच्यते ज्ञातेष्टसाधनत्वेऽपि न प्रवर्तत-