पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- शाब्दभावनानिरूपणम् । निष्ठो ऽभिप्रायविशेषः । वेदे तु पुरुषाभावाच्छन्दनिष्ठ एव प्रेरणापरपर्याय इत्युक्तम् । ननु लोके शब्दनिष्ठे प्रेरणापरपयायव्यापारे श- ब्दप्रयोगाभावेन शक्तिमहाभावात्कयं तस्य विधिशब्दा- प्रतिपत्तिरिति चेत, सत्यमेतत् । तथापि बालस्तावत्स्त- नदानादौ स्वकृतरोदनादिजनितमालप्रवृत्तेः स्वाभिप्रा- यरूपप्रवर्तनाज्ञानजन्यत्वावधारणात्सविधिकप्रयोजकवा- क्यश्रवणसमनन्तरभाविनी प्रयोज्यवृद्धप्रवृत्तिमुपलभ्य तत्कारणत्वेन तस्य प्रवर्त्तनाज्ञानमनुमिमीते । यद्यपि भोजनादौं स्वप्रवृत्तेः समीहितसाधनताज्ञानपूर्वकत्वा- वधारणात्प्रयोज्यवृद्धप्रवृत्तेरपि तत्पूर्वकत्वाध्यवसानं यु- क्तम् , तथाऽप्यन्यप्रेरितप्रवृत्तौ प्रवर्त्तनाज्ञानजन्यत्व- स्योक्तमात्रप्रवृत्तौ दर्शनेन प्रयोज्यवृद्धप्रवृत्तेरप्यन्यप्रेरि. तप्रवृत्तित्वात्तत्कारणत्वेन प्रवर्त्तनाज्ञानस्यैवाध्यवसा- नम् । तच्च प्रवर्त्तनाज्ञानमन्वयव्यतिरेकाभ्यां प्रयो- जकवाक्यजन्यमित्यवधारयति । तत्र चावापोदापाभ्यां प्रवर्त्तनायां विधिशक्तिमवधारयति । प्रवृत्त्यनुकूलव्या- क्तिग्रहो जातः स तद्धर्मप्रकारकबोधे तेन शब्देन जनिते सति तद्धर्या- श्रयप्रसिद्धव्यक्तीनां विशेष्यत्वानुपपत्ती सत्यामप्रसिद्धव्यक्तिमा. क्षिप्यैव बोधः पर्यवस्यतीत्यपूर्वात्मक कार्यविध्यर्थवादिमते लोके च प्रसिद न्याय च प्रेरणाविध्यर्थमते योजयति-तथापीत्यादिना