पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- शनोच्यते इति । ननु केयं शाब्दी भावना । उच्यते । पुरुषप्रवृत्त्य- नुकूलो व्यापारविशेषः । स एव विध्यर्थः । लिङमदिन- वणे 'अयं मां प्रवर्तयति इति नियमेन प्रतीतः। यत्त- इष्टसाधनत्वं विध्यर्थस्तन्न । तथा सति इष्टसाधनमिति शब्दस्य विधिशब्दः पर्यायः स्यात् । न च पर्यायत्वं युज्यते । सन्ध्योपासनं ते इष्टसाधनं तस्मात त्वं कुर्वि- ति सहप्रयोगात्, पर्यायाणां च सहप्रयोगाभावात् । अतश्च व्यापारविशेष एव विध्यर्थः । स च लोके पुरुष- 4 करणमिति । या तु वार्तिके ऽनूचानवाक्योदाहरणानन्तरमपि अग्निष्टोम- वाक्यस्य विकल्पकारित्वप्रतिप्रसवत्वोक्तिः, सा पूर्वाभ्युपगतयोस्त- योर्वाक्यानपेक्षणत्वेनेति बोध्यम् । एतेन श्रीकरोपन्यस्तपर्युदासनिराकरणाय 'न प्रथमय ज्ञे' इति निषेधस्यैव नैमित्तिकनिषेधत्वेन विकल्पानापादकत्वोक्तिन यविवे- कस्था निरस्ता । उक्तरीत्या विकल्पापादकनिषेधस्यैव शास्त्रानुम. तत्वादित्यनवद्यम् । अतश्चेति तच्चेति चौपाशस्त्यं प्राशस्त्यज्ञानमित्यनन्तरौ शेयौ अ- प्राशस्त्यस्य तज्ज्ञानस्य च संग्रहाय स्वर्गादिकर्मकभावनासमभिव्या. हारलभ्यस्य यागादिगतस्य सर्गादीष्टसाधनत्वस्य घटादिवल्लोकग- म्यस्य च कार्यत्वस्यान्य लभ्यत्वान्न विध्यर्थत्वमुचितम् । उचितं तु प्रवर्त्तनाया अताइक्वात्पूर्वोक्तनयाञ्चेत्याशयादाह स एवेति । दूषि- तमपि दोषान्तराभिधानायानुवदति-यत्त्विति । न्यायसुधाकृन्मतं मपञ्चयितुं स्मारयति सचेति । यद्धर्मावच्छिन्ने यस्य शब्दस्य था.