पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाब्दभावनानिरूपणम् । प्रसक्तावपि न तेषामनर्थहेतुत्वम्, रागप्राप्त्यभावान् । रागतः प्राप्तस्यापि क्रत्वर्थत्वेन प्रतिषेधे तदनुष्टानात तोवैगुण्येनानर्थोत्पत्तिः ! यथा स्वस्त्र्युपगमनादिप्र- तिषेधे, रागतः प्राप्तस्य पुरुषार्थत्वेन प्रतिषधे निषिद्ध्यमा- नस्यानर्थहेतुत्वमिति दिक् । तत्सिद्धं निषेधानां पुरुषार्थानुबन्धित्वम् । एवं सर्वस्यापि वेदस्य पुरुषार्थानुवन्धित्वम् । प्रकृतम- नुसरामः। तदेवं यथा विध्यादीनामध्ययनविध्युपात्तानां नानर्थक्यमेवमर्थवादानामपि तदुपात्तत्वेनानर्थक्यानुप- पत्तेः स्वार्थप्रतिपादने च प्रयोजनाभावाल्लक्षणया प्रयो- जनवदर्थपर्यवसानं वक्तव्यम् । ते चार्थवादाः द्विविधाः विधिशेषा निषेधशषाश्च । 'तत्र वायव्यं खेतमालमेन'इ- त्यादिविधिशेषाणां वायुबै क्षेपिष्ठा देवता'इत्यादीनामर्थ- वादानां विधेयार्थस्तावकतयाऽर्थवत्त्वम्। 'बर्हिषि रजतं न देयम्' इत्यादिनिषेधशेषाणां सोऽरोदीद्' इत्यादीनामर्थ- वादानां तु निषेध्यनिन्दकतयेति । अतश्च लक्षणया प्राशस्त्यमर्थवादैर्वाध्यते । तच्च प्राशस्त्यज्ञानं शब्द- भावनायामितिकर्तव्यतात्वेन सम्बध्यते. तामिद्धं वक्ष्य- माणार्थभावनाभाव्यिका लिङगदिज्ञानकरणिका प्राश- स्त्यज्ञानतिकर्त्तव्यताका शाब्दी भावना लिङ्त्वां-