पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- शेषविषयत्व सम्भवात् । नचेयं पारसंख्या विदोषा, रशनामन्त्र- विधिना लैङ्गिकश्रुतिकल्पनाया इवानेनापि विधिनाऽतिरात्र- प्रथम प्रयोगे यन्प्रवृञ्जन्ति' इत्यस्यातिदेशकल्पना प्रतिवन्यादिति तन्नि: रस्तम् । उक्तरी या द्वितीयादिप्रयोगे लाघवसामान्यात् । 'न होतारं वृणीत' इनिवत्पर्युदासेन शक्यपरिहारस्य विकल्पस्य विना कार- णमभ्युपगमायोगाच । सर्वप्रयोगसर्वपदार्थसाधारणातिदेशस्य प्रथम प्रयोगगतपवय॑मात्र बाधकशास्त्रंण प्रतिवन्धायोगाच । सङ्कोचना- थप्राप्तबाधव्यवहारे विशेषशास्त्रादिना सामान्य शास्त्रबाधस्याप्य- प्राप्तवाधित्वापत्तेः । अतः पूर्वोक्तन्यायद्वैविध्येन पर्युदासं निपेचं वा स्वीकृत्य प्रथमप्रयोगमात्रे नित्यं प्रवर्याकरणमेनोचितं स्वीकर्नु द्वितीयादिप्रयोगे त्वग्निष्टोमसंस्थेऽनूचानम्य चिन्त्यं करणम् । अननूचानस्य तत्रेतर संस्थाद्वितीयादिप्रयोगे च मर्वेषां नियमकरण- मिनि व्यवस्था स्वीकार्येति चेत् । द्वितीयादिप्रयोगे विकल्पप्राप्त्य- भावेनैच्छिकविकल्पवाचिनः काममित्यस्यानुवादत्वासम्भवात् । दृश्यते हि 'कामं यस्मै कामयेतां तस्मै दद्याताम्'इत्यापस्तम्बादिवाक्यं व्याचक्षाणानां धूप्रिभृतीनां काममित्यव्ययवलादेव विकल्पोक्तिः । नचानूचान वाक्ये विकल्पो विधीयत इति युक्तम् । प्राप्तप्रवर्गाऽनूचान- सम्बन्धस्य विकल्पस्य च विधाने वाक्यभेदात् । नचानूचानकर्तृ कावग्यानुवादेनेह विकल्पो विधीयतामिति शङ्यम् । विशिष्टानुवादे वाक्यभेदात् । अत एवाग्निष्टोमवाक्यं यद्यप्यनूचानवाक्योत्तरं प्रव- र्तने, तथाऽप्यनूचानवाक्ये विकल्पानुवादनिहाय 'न प्रथमयज्ञे' इन्यस्य विकल्पापादकमेव प्रतिषेधत्व स्वीकृत्य तत्सिद्धवैकल्पिक करणानुवादनानूचानसम्बन्धविधिपरमनूचानवाक्यं स्वीकार्यम् । यच्च प्रथमप्रयोगेऽनूचानकर्तृकं वैकल्पिक करणं शब्दादुपस्थितं तस्या- मिष्टोमनिमित्तत्वममिष्टोमवाक्येन यथावार्तिकं सिद्धान्त्यभिमतानुष्ठानसिद्धिः-न अग्निष्टोमप्रथमप्रयोगे,अनूचानस्य वैकसिकं करणम्, तवान्येषामतिरात्रप्रथमपयोगे सर्वेषां नित्यम- बोध्यत इति