पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निषेधगतो विशेषः। तिषेधस्तदा तद्गत सामान्यविधिबाधेनैव निषेधाद् व्यवस्थित- विषय एव विकल्पः-प्रथमप्रयोगेऽननुष्टानं द्वितीयादावनुष्ठान मिति निषेधपतिपसवाभ्यां तु विकल्पप्रसक्तिर्वाच्या । अनूचानवाक्योपसंहताग्निष्टोमवाक्पस्य बनूचानाख्यविशेषनिष्ठ- त्वात्तेन सङ्कोचं गमिता विकल्पप्रसक्तिः सामान्यनिषेधो. ऽननूचानविषयत्वेनावतिष्ठते इति । विकल्पस्यानूचानविषयत्वो- क्तिवार्तिककारीया तु नात्र व्यारूपयेति मिश्रानुसारिणां पन्थाः । सर्वेऽप्येते पन्थानः सिद्धान्तसंरक्षणाय प्रवृत्ता न तु बुद्धिमता स्वीकर्तमुचिताः । तथाहि-मिद्धोडापे निषेधो विकल्पापादकत्वेन 'नानुयाजेषु'इत्यादौ यर्न स्वीक्रियते नैः ‘आग्निष्टोमे प्रवृणक्ति' इत्य- स्य विकल्पापादकं प्रतिप्रसवत्वं किमित्याश्रीयत इत्याश्चर्यम् । तर्हि किमेतत् करोतीति चेत । अनूचानवाक्पादनूचानकर्तृकत्वेन प्राप्त प्रवर्यस्याग्निष्टोमनिमित्तत्व बोधयतु, अनू नानवाक्यं तु 'यत्पन्न न्ति' इति सामान्यविवेः 'न प्रथमयज्ञे इत्यनेन द्वितीयादिप्रयोगविष. यता नीतस्यानूचानविषयतापापकं भवतु, सर्वशास्त्राणां परस्पराना- लोचनेनोत्पत्तिशास्त्रालाच नयैव प्रवृत्यौचित्यात् । अनिष्टोमवाक्ये च निमित्तसम्बन्धप्रतिप्रसवोभयापेक्षया निमित्तसम्बन्धमात्रबो. धने लाघवात । अनूचानवाक्यादननूचानकर्तृकक्रतौ क्लृप्तसम्ब- न्धायाः प्रवयनिवृत्तेरनूचानक कनिमित्तरहितपयोगेऽपि प्रापणेन लाघवाञ्च अधिकारिव्यावर्तनस्वभावनिमिससमर्पणस्य च शा. ब्दाधिकारिमाप्तिमपेक्ष्य प्रवृत्त्यौचित्यात् । एतेन यत्कैश्चिन्निषेधस्य विकल्पप्रसञ्जकत्वं स्वीकृत्य सिद्धा- न्तसंरक्षणायोक्तं 'अग्निष्टोमे प्रवृणक्ति'इति वचनं प्रथमप्रयोगे वैक- ल्पिकत्वेनाव गतस्य प्रवर्यस्यातिरात्रपथमप्रयोगात् परिसंख्यार्थम् । द्वितीयादिप्रयोगेऽत्यन्ताप्राप्तनिवृत्तिमापणात्प्राप्तनिवृत्ति के प्रथमप्रयो- गे निवृत्तिनियमने नियमविधिवल्लाघवात् । सामान्यप्रवृत्त्याऽपि विधेर्हरण्यगभर्मन्त्रविधिगोचरदाशमिकन्यायेन लाघववशेन वि.