पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टाल वारनहितमीमांसान्यायप्रकाशे- •. स्वापरपर्यायं नत्फलत्वपक्षीति शङ्यम् । न्यायसुधाकृत्प्रक्रियामा तात्पर्यस्य तादातिरकात् । कथमन्यथा तसिद्ध्यधिकरणादौ तात्पर्याख्यवृत्तेः शाब्दत्वनियापकत्वं वदता तेनैवार्थिकमन्त्रनित्य- र्थत्वं रशनादानमन्त्रविधेः स्वीक्रियेत । ननु पर्युदासान्तरेऽपि अर्था- दकर्तव्यत्वप्रतीतिः सम्भव क्षेत्र । यतो नानु बाजेषु यजतिषु ये यजामहः कर्तव्य इत्युक्ते भवयर्थादीशी बुद्धिः-अनुयाजेषु येयजामहो न कर्त- व्य इति,अतोऽकर्तव्यतायां तात्पर्याभावे कथं पर्युदासान्तरवैलक्षण्यो- क्तियायसुधाकृतः सङ्गच्छत इति चेत् न । शास्त्रान्तरसङ्कोचार्थ पर्युदासान्तरेऽकर्तव्यताप्रतीतिरानुपगिकी, प्रकृतपर्युदासे तु फल- मिति वैलक्षण्योपपत्तेः । नच शास्त्रप्राप्तस्याप्यार्थिकनिवृत्तिप्रतीति- विकल्पमापादयति, गर्दभाभिधान्यां मन्त्राविकल्पापत्तेः । अत उप- चारवृत्या प्रतिषेधत्वेन व्यवहियमाणं पर्युदासमाश्रित्यैव सम्भवति सिद्धान्त इति न्यायसुधानुसारिणां पन्थाः । मिश्रास्तु प्रतिषेधाद्विकल्पप्रमाक्तिमनुपन्यस्यैव प्रतिषेधपति- प्रसवाभ्यां विकल्पं सोऽप्यनूचानवापार्थोदाहुतायवस्थितविषयो ऽनूचानस्य नित्यं करणपन्येषामकरणमित्याहुः । कथमेतदुपपद्यत इति चेत् , शृणु-यथा द्वादशाहाङ्गत्वेनावग- ताया एकादशिन्या अङ्गत्वेन प्रायणीयोदयनीययोः 'ऐकादशिना. नाल भेरन्' इति वाक्येन प्रायणीयोदयनीयदेश एव विधीयते । अत एव विवक्षितसाहित्य सत्याभपत्र विभज्यैकादशिनानामनुष्ठानमि- स्युक्तं दशमे । तथा 'न प्रथमयज्ञे प्रवृज्याद'इत्यत्र ननभावे ताव- ज्ज्योतिष्टोमाङ्गत्वेन प्राप्तस्य प्रवग्यस्य प्रथममयोगो देशवेन विधीयते यच्च नञभावे विधेयतया प्रतीयते तस्यैव नवति निषेध्यत्वमु. चितमिति पूर्वोक्तन्यायेन देशनिषेध एवायम् , न तु प्रयनि- पेधः । तथाच शास्त्रमाप्तस्य निषेधाभावान्न विकल्पमसक्तिः। अमुनवाशयेनाह भवदेवः-'यदा प्रथमैकप्रयोगविषयः प्र. ..