पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निषेधगतो विशेषः। ४६५ . प्रज्याद्' इति वचनादनूचानश्रोत्रियविषयम्, अन्येषां नित्यगक- रणमिति वार्तिककारीयः पन्थाः । अत्र न्यायसुधाकार:-'न प्रथम यज्ञे' इत्यस्य प्रतिषेधत्वेन 'अनुयाजेपु' इति न्यायेन सामान्य प्रवृत्तस्यापि प्रापकविधेः- निषेधेन समबलत्वात् प्रतिप्रसवं विनैवाग्निष्टोमे विकल्पसिद्धेः प्रतिप्रसवानर्थक्यम् , अतिरात्रेऽपि प्रतिषेधमात्रमहिम्ना वि- कल्पमसक्तिश्च । अतः पर्युदास एवायमनारभ्यवादशेषः । पर्युदा- सेन तेन द्वितीयादिप्रयोगगतकर्तव्यतामात्रमापणादग्निष्टोमवाक्या- त्पथमपयोगे नित्यकर्त्तव्यतापत्तिः । अन्यत्र पर्यदासस्याकतव्यता:- पापकत्वेऽपि प्रतिप्रसवानर्थक्यभये नेहैव पर्युदासस्याकर्तव्यताप्रा- पकत्वाश्रयणात् । अत एव पर्युदासेऽपि प्रतिषेधोक्तिः वार्तिकका- रीया सङ्गच्छते । अतोऽग्निष्टोमप्रथममयोगे पर्युदासपतिप्रसवसाम- थ्र्याद्विकल्पः । सो ऽप्यनूचानश्रोत्रियविषयः, अन्येषां तत्र, सर्वेषा- मतिरात्रसंस्थप्रथमप्रयोगे च नित्यमकरणमित्याह । ननु पर्युदासस्य प्रतिषेधवदकर्तव्यतोक्त्यर्थत्वे कथं तेना. तिरात्रऽपि विकल्पपरिहारः, प्रतिप्रसवस्यानतिदेशेऽपि तेनाकत्त- व्यतायां गृहीततात्पर्यकस्य पर्युदासस्य नावमिकैकधाशब्दगो- चरन्यायेन विकृतौ विपरीततात्पर्यकत्वासम्भवादिति चेत् । किं नालोचितो न्यायमुधाग्रन्थः-नशब्दस्याकर्त्त- व्यत्वोक्तो तात्पर्याभावेऽपि नशब्दसामोदकर्तव्यत्वप्रती- तेः प्रतिषेधोतिर्भाष्यकारादिभिराश्रिोति । अकर्तव्यताया- स्तात्पर्याविषयत्व कथं तत्पतीतिः पर्युदासादिति चेत्, 'इत्यश्वाभिधानीमादत्ते' इति शास्त्रागर्दभाभिधान्यां मन्त्रनिवृत्ति- प्रतीतिवदिति ब्रूमः । प्रापकशास्त्रप्रतिबन्धसङ्कोचकृतविशेषसत्त्वे- ऽपि तात्पर्याविषयीभूतनिवृत्तिप्रतीतेः शास्त्रफलत्वस्योभयत्र सा. म्यात् । नच शास्त्रे तादयतात्पर्ययोरभेदादतत्परस्य कथं तदर्थ- ८९