पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- पर्युदासोऽपि सम्भवति । म ह्यग्निष्टोमवाक्य शेष' स्थाद्, अनारभ्यत्रा- दशेषो वा ?। नायः । पयुदासस्यामिष्टोमवावग शेषत्वे सत्यग्निष्टोमवा- क्यस्य पर्युदासप्रतिप्रसवत्वस्याप्यसम्भवेनोक्तरीत्यापसंहाराविनि- योगार्थत्वस्याप्य सम्भवेन च सागान्यप्रवृत्तानारभ्यवादानधिका- यस्यानर्थक्यापत्तेः । मपर्युदासैतल्लभ्य द्वितीयादिप्रयोगे प्रवा- नुष्ठानस्य सपयुदासेन तेनैवोपपत्तेः । न द्वितीयः । तदा ह्ययं प युदामोऽनारब्धवादस्य प्रकृतावेवोपदेशत्वे नावस्थितस्यातिरात्र दशमाद्यन्यायनोपकारपदार्थपृष्ठभावेन प्राप्तस्य शेपः स्यात् , उप देशत्वेनैवाग्निष्टोमानिरात्रसाधारणस्य वा, तत्त्वेनातिरात्रमात्रवि- षयस्य वा, तत्वेन प्रकृतिमात्रविषस्य वा ? । नाद्यः । 'प्रकृती वा- द्विरुक्तत्वादु'इति न्यायेन कौषीतकिमकरणपाठेन वा प्रकृतिनिवि. टस्य 'न प्रथमयज्ञे' इस स्य कथांचदपि तत्रैव प्रयोजन सम्भवे सत्यु. स्कर्षकल्पनायोगात् । एतेन निषेधविधया ऽप्यतिरात्रविषयत्वमस्य मत्युक्तम् । न द्वितीयः । पूर्वोक्तन्यायेन प्रकृतिप्रविष्टस्य 'यत्प्रवृञ्ज न्ति' इत्यस्यातिरात्रसाधारण्यं तदा स्याद् यदि संस्थाः समानवि- धाना भवेयुः । निरस्तं तु तासां समानविधानत्वं तृतीये । न तृती- यः। अतिरात्रावान्तरप्रकरणपाठाभावेऽतिरात्रविषयस्याशक्यवचन- स्वात् । न चतुर्थः । तथा सत्यनारभ्यवादपयुदासस्याग्निष्टोमपथमप्रयो- गमात्रविषयत्वाद् 'निटोपे प्रवृणक्ति'इनि प्रतिप्रसवोऽपि तन्मात्रवि- पयः स्यात् । तत्र पर्युदासवशान्नित्यमकरणमुच्येत प्रतिपसको व्यर्थः स्यात् । प्रतिप्रसवबलेन नित्यकरणे वा पर्युदासवैयर्यमिति पुनरु- भयानुरोधेन विकल्पापत्तेः किं पयुदासेन । यथाहुः-यस्मादिक ल्पाद्विभ्यद्भिः पर्युदास आश्रितः, स तस्मिन्सत्ययापन्न इति वरं शब्दस्वरसलभ्यः प्रतिषेध एवाश्रित इति । अतोऽग्निष्टोमप्रथमप्रयोगे निषेधप्रतिप्रसवाभ्यां विकल्पेऽपि अतिरात्रेऽग्निष्टोम सस्थानिमित्त- प्रतिप्रसवानतिदशान्नित्यमकरणमिति । एवममिष्टोमप्रथममयोग- गतं वैकल्पिककरणं 'कामं तु योऽनूचानः श्रोत्रियः स्यात् तस्य +