पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिषेधगतो विशेषः 1 . पि तत्रानुप्रवेशात् । कोषीतकिब्राह्मण तत्प्रकरण एव प्रवर्षे सति विधनिषेधस्य च पाठाच । अत एवोपसदङ्गत्वशङ्काऽपि निर- स्ता । तस्माजोतिष्टोमस्य सर्वपयोगेषु निषेधप्रवृत्तिरित्याशय सिद्धान्तितम्-प्रथमशब्दस्याप्रवृत्तप्रवृत्तिवाचित्वात्तयोगनैव यागे प्रवृत्तेमुख्यतदनुरोधेन च जघन्ययज्ञशब्दे लक्षणौचित्यादसं- दिग्धप्रयोगवाचिद्वितीय तृतीयशब्दसाइचर्येण प्रथम यज्ञशब्दस्य प्र- योगवाचित्वावसायाच प्रथमप्रयोग एवं प्रवानिपेध इति । एवं सिद्धे सति 'अग्निष्टोमे प्रवृणक्ति' इति तैत्तिरीयाम्नातवाक्यस्य का गतिरिति शङ्का यामाहुः-द्वितीयादिप्रयोगेषु सामान्यशास्त्रेणैव प्रवर्यप्राप्तः प्रथमप्रयोगविषयमेवैतत् , तत्र न तावदस्य निरवकाश स्वान्निधस्य विकृतिपथमपयोगविषयत्वम् । अस्यापि अग्निष्टोमसं- स्थाविकृतिष्वतिदेशप्राप्तनिषेधबाधेन सावकाशत्वसम्भवात् । 'य- एतेन इति शास्त्रावगतपथमयजनस्य ज्योतिष्टोमादन्यत्र सम्भवाच्च । अयोध्येताग्निष्टोमसंस्थाप्रथमप्रयोगांवेषपतविधिवलादतिरामस्थप्र- थमप्रयोगविषयो निषधोऽस्तु । अस्ति हि तस्यापि विधिः । तस्मात्तु प्रथमं यज्ञोऽतिरात्रेण यजेत'इतीति चेत , न । निषेधस्य प्रकृतिप्रथमप्र- योगद्वयविषयत्वे सति विधेश्च प्रकृतिविकृत्यग्निष्टोपसाधारण्ये सति विधिप्रावल्याश्रयणेन निषेयस्यैव सङ्कोचात्मकवाधाश्रयणे नियाम- काभावात् । तस्मादग्निष्टोमप्रथमप्रयोगे 'न प्रथमप्रयोगे','न प्रथमयज्ञे' इति निषेधाद् ‘अग्निष्टोमे प्रवृणक्ति'इतिप्रतिप्रसवाद्विकल्पः । अतिरात्रे तु निषेधपतेरनग्निष्टोमत्वेन च पनिप्रसवाप्राप्तेनियमकरणम् । अथ 'यत्मवृञ्जन्ति'इत्यनारभ्योत्पन्नस्य प्रवर्यस्य 'अग्निष्टोमे प्रवृणक्ति इति विनियोगोऽस्तु, तस्य च 'नानुयाजेषु'इतिन्यायेन प्रथमयज्ञवर्जमिति पर्युदासादकरणमेववाग्निष्टोमप्रथमपयोगेऽपीति चेत् , न । कौषीत- किशाखाम्नातवचसा 'पुरस्तादुपसदाम्' इतिवचसा चोक्तन्यायेना. मिष्टोमसंस्थज्योतिष्टोमाख्यप्रकृत्यर्थत्वार स्वसिद्धरुक्तत्वात् । एतेन साप्तद- श्यन्यायेनानारभ्यवादोपसंहारार्थत्वमग्निष्टोपवाक्यस्य प्रत्युक्तम् । नच -