पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- दिषु दानहोमादीनां शास्त्रप्राप्तावपि पुरुषार्थत्वेन प्राप्तत्वा- तु क्रत्वर्थत्वेन च प्रतिषेधात्तुल्यार्थत्वाभावेन विकल्पा- शास्त्रबाधनिमितविकल्पमसक्तिः । अमुनेवाशयेनोक्तम्-तुल्पा- र्थत्वाभावति । यो यावज्जीवविधेस्तात्पर्यविषयोऽकरणस्य प्रत्यवाय हेतुन्वं स नैव प्रतिषेधस्य विषयो निषेध्यत्वेनेत्या- शयः । विधेरनुवाद्यकोटिनिक्षेपाभावेन पर्युदासतुल्यत्वात्सौ. प्रव्यवहारोपपत्तिः । एतेन 'यच्छाद्धं तद्रात्रौ न कुर्वीत,' 'यो यज्ञस्तं मार्न कुर्वीत' इति केवलं श्राद्धं यज्ञं चानूय रात्रिमावर्ज नयोरङ्गत्वबोधकशास्त्राभ्यां विकल्पाप्रसक्तिव्याख्याता । रात्रिमा- षयोर्यज्ञानत्वमाप्त्यनपेक्षत्वमात्रेण तुल्यन्यायत्वोपपनेः । नन्वे. वमपि न प्रथम यज्ञे प्रवृज्याद' इत्यत्र तार्ती यसिद्धान्तो न सङ्गच्छते, तथाहि वाक्यपादे "मंख्यायुक्तं क्रतोः प्रकरणात्स्याद्" इत्यधिकर. णे 'न प्रथमयज्ञ प्रवृज्यात्, न द्वितीये तृतीये वा प्रज्याद्'इत्युदा: हृत्य चिन्तितम्-किं प्रथमयज्ञशब्देन ज्योतिष्टोममुद्दिश्य तदीय- सर्वप्रयोगेषु प्रवर्यो निषिध्यते, उत तदीयं प्रथमप्रयोगमुद्दिश्य तत्रैव स निषिध्यत इति । तत्र ‘य एतेनानिष्ट्वा' इति शास्त्रेण ज्योतिष्टोमे प्रथमयज्ञपदप्रवृत्तिनिमित्तागपात , तद्वाक्षशेषे च 'एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमः' इति प्रथमयज्ञशब्दस्य ज्योतिष्टोम एव दृष्टप्रयोगत्वाद्, यज्ञशब्दस्य च प्रयोगे लक्षणापत्ते, प्रथमपत्तिवाचिनः प्रथमशब्दस्य यागगोचरलक्षणायास्तु पृष्ठश- ब्दस्य रथन्तरादिष्विव वेद दृष्टत्वेनादोषत्वात् , प्रकरणानुग्रहला भाच्च ज्योतिष्टोमे एव प्रवयनिषेधः । नन्वनारभ्य 'यत्प्रवृञ्जन्ति'- इति विहितं प्रवयं प्रकृत्य पठितनिषेधे कथं प्रकरणानुग्रहः । 'पुर- स्तादुपसदां प्राग्येण प्रचरन्ति इति शास्त्रेण यत्रोपसदस्तत्रायं स्या- दित्यवगतेस्तासां ज्योतिष्टोम एवोपदेशात् 'प्रकृतौ वाऽद्विरुक्तत्वाद्' इति न्यायेन ज्योतिष्टोमप्रकरणानुपविष्टे विधौ सति निषेधस्या- .