पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिषेधगतो विशेषः । ४६१ कालीनहोमप्राप्तिमादाय प्रवृत्तेन 'यदीक्षितो जुहोति तन्न' इति नि- षेधेन तस्य विधीक्षेतरकालावच्छिन्नजीवन निमित्तत्व परतया स- कोचः क्रियेत, तदा दीक्षाकालीनहोमाकरणान्न प्रत्यवायः, तत्क- रणाद्वा न पापक्षय इत्येव सिध्येत्, नतु तत्करणाज्जोतिष्टोमवै. गुण्यम, उपजीव्यमाप्त्यर्थमवश्यालोचनीयविधिसोचनव निषेधस्य प्रयोजनवत्व लाभे प्रकरणेन क्रत्वङ्गत्वकल्पनानुदयात् । तथाच प्रकरणपाठवाधापत्तिः । अतो 'यो होमस्त दीक्षितो न कुर्याद्' इति केवलोत्पत्तिसिद्धहोमस्वरूपानुवादेन तर्जनरूपनिवृतेः समीहितसामान्यानुवन्धबोधकशास्त्रेण तविशेषाकाङ्क्षायां क्रतुवि- ध्येकवाक्पतां प्राप्य वर्जनस्यापूर्व हेतु बोधयता प्रतियोगिनस्तत्य- तिबन्धकत्वमापाद्यते, नतु विध्यन्तरसङ्कोचः, नतरां तद्धाधः । नचैवमकरणे प्रयवायभयान दीक्षितो होमान्निवर्तेतेति शक्यम् । हिंसागोचरसाङ्ख्योक्तन्यायेन ज्योतिष्टोमफलकामस्य प्रत्यवा- यमभ्युपगम्यापि निवृत्त्युपपत्तेः । महाभाष्यकारोक्त कूपखननन्या- येन वोत्पन्नस्यापि प्रत्यवायस्य प्रधानापूर्वेणैव नाशाभ्युपगमात् । ननु क्रत्वर्थहिंसाविधिना पुरुषार्थनिषेधस्येव क्रत्वर्थनिषेधेन पुरु- पार्थहोमविधेरपि सङ्कोच एव कुतो नाभ्युगम्यत इति चेत् , न । यतो निषेधस्य प्राप्त्यपेक्षायां रागप्राप्त्यापपन्नस्य स्वत एव शास्त्री. यहिंसायामप्रवृत्तिं बदामो नतु विधिना तत्सङ्कोचं ब्रूमः । इहापि यदि यावज्जीवविधिरकरणनिषेधबोधकः स्यात् , तेनैव न्यायेन शास्त्रीयप्रकरणं न विषयीकुर्यात् । करणविधिस्त्वयं कथमकारणस- शोचं गच्छेत, अतो यथैकस्मिन्पर्वपूवाढेऽनेककामस्यानककाम्ये- ष्टिसन्निपाते युगपदनुष्ठानासम्भवाद्यत्फले एवोत्कटकामस्ततोऽ- न्यत्र न प्रवर्तते इत्यतो नान्यशास्त्राणां विषयतः फलतो वा बाधो व्यवह्रियते, तथा ज्योतिष्टोमफलार्थी यदि नाग्निहोत्रे प्रवर्तते नैतावता यावज्जीवविधेः कथमपि बाधव्यवहार उचित इति कथं . +