पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तदीक्षितो न' इति होममात्रप्राप्तिसापेक्षाया वचनव्यक्तेराश्रयणात् । तथाहि नसभावे यद्विवातुं योग्य सखपि तस्मिन्नतच्छब्दोपबन्धे नानु बन्धकविनिक्षिप्ततया शक्यं दर्शयितुमिति नञभावे तच्छब्दोपब न्धेन यथा विधेयं भवति, तथा सति तस्मिस्तच्छब्दोपबन्धेन नि. पेभ्यता प्रतिपद्यते । विधेयतात्मिकाया इव निषेध्यतात्मिकाया अपि विषयतायास्तदुपबन्धादिनाऽर्थविशेषेऽनुभवसिद्धत्वात् । यदि 'यदीक्षितो जुहोति' इति स्यात्तदा यावज्जीवविधिनाऽपि होमं प्रति दीक्षाविशिष्टकर्तुगुणभावाप्राप्तहोमोद्देशेन दीक्षित एव विधेयः स्यात् , अतः सति ना 'यज्जुहोति' इतिहोममात्रानुवादेन 'तद्दीक्षितो न' इत्येवं स एव निषेध्यत्वेन वक्तुमुचितः । तथा च होमप्राप्ति- मात्रेणोपपन्नत्वादसत्यामपि याव जीवविधिना दीक्षितकर्तृक हो- मप्राप्तौ नानुपपत्तिनिषेधस्य, असति चास्मिन्दीक्षितं प्रति होममा- प्तिसम्भवात् पर्युदासवत्ययोजनसम्भवः । अत एव सौत्रः पर्युदास- स्वव्यवहारः । नच दीक्षितत्वेन रूपेण पुंस इवानुयाजत्वेन रूपेणा- नुयाजानामपि सम्बन्धाप्राप्तेः 'नानुयाजेषु'इत्यत्रापि 'यदनुयाजेषु येयजामहङ्करोति'इत्यनुवादानुपपत्तिरिति शङ्काम् । यज्ञेषु येयजामहः कर्तव्य इति विधेः प्रत्युद्देश्यममाप्त्याऽनुयाजदेनानुयाजशेषिता- प्राप्तिसंभवात् । 'अग्निहोत्रं जुहुयाद्' इतिविधस्तु कर्तुविधेयत्वे सत्य- पि प्रतिव्यक्ति समाप्त्यभावेन दीक्षितत्वेन दीक्षितकर्तव्य- स्वाप्राप्तेः । नच तत्वेन दीक्षितककत्वापाप्तावपि दीक्षाकाली. नहोमप्राप्तिमात्रेण यदीक्षितो जुहोति' इत्यनुवादः किं न स्यादिति शङ्ख्याम् । नञभावे प्रतीतायास्तच्छन्दोल्लेखिविषयताया असति बाधके त्यागस्यान्याय्यत्वात् । दीक्षाया उपलक्षणत्यप्रसक्तेश्च । सम्मायावज्जीवविधेदीक्षितेतरविषयत्वेन सङ्कोचेऽपि 'यज्जुहोति तदीक्षितो न इति निषेधस्य नानुपपत्तिः । यद्वा नैव तत्सङ्कोचः, नच शास्त्रमाप्तस्य बाधप्रसङ्गः । यदि हि यावज्जीवविधिकृतां दीक्षा-