पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिषेधगतो विशेषः । ४५९ विकल्पो ऽपि स्वीक्रियते अनन्यगतेः । अतश्चैतसिद्धम्-यत्र 'तस्य व्रतम् इत्याापक्रमः विकल्पप्रसक्तिश्च नास्ति तत्र प्रतिषेधः, यथा-'न कल- जं भक्षयेद्' इति । यत्र वा विकल्पप्रसक्तावपि पर्युदास आश्रयितुं न शक्यते तत्र प्रतिषेधः, यथा 'नातिरत्रे षोडशिनं गृह्णाति' इति । एतावांस्तु विशेषः यत्र वि- कल्पापादकः प्रतिषेधः, तत्र प्रतिषिव्यमानस्य नानर्थहे- तुत्वम् उभयोरपि विधिनिषेधयोः क्रत्वर्थत्वात् । यत्र तु न विकल्पः प्रसज्यते प्राप्तिश्च रागतः प्रतिषेधश्च पुरुषार्थः, तत्र निषियमानस्यानर्थहेतुत्वम् । यथा कलञ्जभक्षणस्य । दीक्षितो न ददाति न जुहोतीत्या- यथाऽत्र पर्युदासकलानानिमित्ते ससपि तदनुपपत्तेनिवेधस्तथा क्लुप्त- स्यापि पयुदासस्य कचिदनुपपत्तनिषेध एव । यथा 'सहस्रसंवत्सरं मनुष्याणामसम्भवाद्' इति कातीयस्वे । व्याख्यातं च तथा कर्का- चारित्याशयः। यत्रेयनन्तरं क्रत्वर्थ इति शेषः । उपलक्षणं चैतत् । पुरुषार्थविकल्पापादकोऽपि यत्र निषेधस्तत्रापि न निषेध्यस्यानर्थ. हेतुत्वं निषेधस्यानावश्यकताज्ञापनपरत्वात् । अत एव वाऽऽह-पत्र स्विति। प्राप्तिश्चरागत इत्यस्य प्रयोजनदर्शनव्याजेन 'दीक्षितो न जुहोति इत्यादौ विकल्पापति निराकरोति-दीक्षित इति । ननु 'यावज्जीवमग्निहोत्रं जुहुयाद्'इत्यादेदीक्षितेतरविषयत्वेन सङ्कोचे प्राप्त्यभावानिषेधानुपपत्तिः । असङ्कोचे वा शास्त्रमासस्यायन्तिकबा- धायोगादवर्जनीया विकल्पापत्तिरिति चेत् । स्यादेतदेवम्, यदि 'यद्दी- क्षितो जुहोति तन्न' इति वचनव्यक्तिराश्रीयेत, नत्वेवम्, 'यज्जुहोति