पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यच्च तदन्यमात्रसङ्कोचनार्थत्वात्पर्युदासस्येति । त- न। नक्षतइत्यत्र सत्यपि पर्युदासे सङ्कोचाभावात् । न हि सामान्ये प्राप्तं तदन्यमात्रे सङ्कोच्यते सङ्कल्पमात्रवि- धानादित्युक्तमित्यास्तां तावत् । तत्सिद्धं नानुयाजे- वित्यत्र विकल्पग्रसक्त्या पर्युदासाश्रयणमिति । यत्र तु स आश्रयितुं न शक्यते तत्र तत्प्रस- तावपि निषेध एवाश्रीयते । यथा 'नातिरात्रे षोडशिनं गृह्णाति'इत्यत्र । नहि 'अतिरात्रे षोडशिनं गृह्णाति'इति शास्त्रप्राप्तमतिरात्रे षोडशिग्रहणं प्रतिषिध्यत इति विहित- प्रतिषिद्धत्वाद्रिकल्पप्रसक्तावपि पर्युदास आश्रीयते ऽश- क्यत्वात् । यद्यत्र नत्रः षोडशिपदेन सम्बन्धः स्वीक्रियेत तदाऽतिरात्रे षोडशिव्यतिरिक्तं गृहातीति वाक्यार्थः स्यात् , तत्र च 'अतिरात्रे षोडशिनं गृह्णाति इति प्रत्यक्षवि- धिविरोधः । अत एवातिरात्रपदेन न नत्रः सम्बन्धः, 'अतिरात्रे घोडशिनं गृह्णाति इति प्रत्यक्षविधिविरोधात् । अतश्चात्र पर्युदास यानुपपत्तेनिषेध एव स्वीक्रियते । ति शेषः । पारायवोधने विभक्तरिवोपसंहारे विधिसहकारित्वेनैव विशेषोपस्थापकपदस्य मित्रविन्दादिप्रकरणं न तु स्वातन्त्र्येण, पारायंप्रनीतिमूलकत्वादुपसंहारस्त्याशयः विधिचिरोध इति । पर्युदासो हि स्वीक्रियमाणो विकल्पपरिहारेण निवृत्तिफ- लको वाच्यः । न चैष पयुदासस्तथा वक्तुं शक्यते, प्रत्यक्षविधिवि. रोधादिति भावः । अत एवेति । अनेनैव प्रकारेणेत्यर्थकविरोधा- दिति पञ्चम्यन्तेनान्वेति । अतश्चेति । चो भिन्नक्रमः । अत्रेति ।