पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपसंहारस्वरूपविवरणम् । भवति, नैतावता किंचिदिरुध्यते । विध्यभावे हि कथं विधिकार्यमुपसंहारः पर्युदासेन क्रियत इति भव- ति विरोधः । न चात्र विधिर्नास्ति नत्रोऽनुयाजपदस- म्बन्धन विधेर्विधायकत्वस्याख्यापनात । अत्र हि पर्य- दासोऽनुयाजव्यतिरिक्तविषयसमर्पकः, आग्नेयवत् । उ- पसंहारकस्तु विधिरेव । न च-अत्र तन्मात्रसङ्कोचाभावान्नोपसंहार इति वाच्यम् । तन्मात्रसङ्कोच इति कोऽर्थः ?-आग्नेयमात्रे सङ्कोचो वा, सामान्यप्राप्तस्य विशेषमात्र सङ्कोचो वा ? । आये ऽनारभ्याधीतसाप्तदश्यस्य मित्रविन्दादिप्रकरण- स्थेन वाक्येनोपसंहारो न स्यादाग्नेये सङ्कोचाभावात् । द्वितीये चतुर्दाकरणस्य पुरोडाशमात्रे प्राप्तस्याग्नेये स- कोचवत् अनुयाजाननुयाजसाधारण्येन प्राप्तस्याननुया- जेषु सङ्कोचादुपसंहारः स्यादेव । एतावांस्तु विशेषः- आग्नेयादिवाक्येषु आग्नयादयो विशेषाः स्वपदोप- स्थिताः, प्रकृते तु पर्युदासेन तस्योपस्थितिरिति । उपसंहारन्यायस्त्वविशिष्ट एव । विरोध इत्याह-विध्यभाव इति । ननु पर्यदासेन स्वय- मेव विषयविशेषसमर्पणान विधिरपेक्ष्यतेऽतः श्रुतोऽप्यविवक्षि- तोऽत आह-नचानेति । नास्तीत्यविवक्षित इत्यर्थः । फला- भावादविवक्षा मो न यच्छब्दादिवत्पर्युदासस्य तच्छक्तिविघात- कत्वेनेत्यत आह-अत्रहीति । समर्पकइत्यनन्तरम्-इति ससमि-