पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाश न । तन्मात्रसङ्कोचार्यत्वादुपसंहारस्य, तदन्यमात्रसको- चार्थत्वात पर्युदासस्येति केचित् । अन्ये तु उपसंहारो नाम सामान्यतः प्राप्तस्य वि शेषे सोचनरूपो व्यापारविशेषो विधेः । 'पर्युदाप्तः स विज्ञेयो यत्रोत्तरपदेन नञ्'-इत्यभियुक्तोक्त्या प्रत्यया- तिरिक्तन धातुना वा नाम्ना वा नत्रः सम्बन्धः । अ. तोऽनयोस्तावत्स्वरूपतः स्पष्ट एव भेदः । एवं सत्य- प्यभेद आशङ्क्येत यदि यत्र पर्युदासो विहितस्तत्रा- वश्यमुपसंहारः स्यात् । न चैतदस्ति । 'नेक्षेनोद्यन्तम्' त्यादौ सत्याप तस्मिन्नुपसंहाराभावात् । न हि तत्रा- ग्नेयचतुर्दाकरणमिव सामान्ये प्राप्तं किंचिदिशेष स- कोच्यते । पापक्षयोदेशेनानीक्षणसङ्कल्पमात्रविधानात् । प्रकृतोदाहरणे तु यजिसामान्ये प्राप्तस्य येयजामहस्या- नुयाजव्यतिरिक्तषु सङ्कोचनाद्यदि विधेरुपसंहारविधित्व प्रामाण्योपपत्तेः । न्यायसुधाकारोक्तं परिहारमाह-तन्मात्रेति । तयणाय सम्प्रदाय मतमाह-अन्दस्थिति । रूप इति । सङ्कोचनं रूप्यतऽनेनेत्यर्थः । विशेष प्रति पारार्यज्ञापनात्मक इत्याशयः । अभेद इति । फलैक्यात्प्रमाणान्तर त्वरूपभेदाभाव इत्यर्थः । सङ्कल्पमात्रविधानादिति-पानशब्दो भिन्नक्रमः कायवाची च विधानमात्रादिति यदि सङ्कल्पसामान्यतः फलप्साधनत्वेन विहितः सन्निह पापक्षयार्थत्वेन विधीयते सम्भव दपि तत्सङ्कोचः, नचवमस्ति, इहैव सङ्कल्पगोचरविधिचतुष्टयाङ्गी- करणादित्याशयः । प्रत्युत विधेरूपसंहारविधित्वाभाव एव तदा