पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५५ पर्युदासोपसंहारयोरभेदशङ्का । प्रतिषिद्ध इति न विकल्पः। लक्षणया चानुयाजव्यतिरि- क्तविषयसमर्पणान्नानुयाजेविति वाक्यस्य नाप्रामाण्यम् , अतश्च पर्युदासाश्रयणे न किंचिद बाधकम् । तसिद्धं नानुयाजेष्विति वाक्ये विकल्पभयात्पर्युदासाश्रय- णमिति । ननु पर्युदासाश्रयणे यजतिषु येयजामहं करोती- ति शास्त्रेण यागसामान्य प्राप्तस्य येयजामहस्य नानु. याजेष्वित्यनेनानुयाजव्यतिरिक्त सङ्कोचनात पर्युदास- स्योपसंहाराभेदः स्यात् । उपसंहारे हि सामान्ये प्राप्त स्थ विशेषे सङ्कोचो भवति । यथा 'पुरोडाशं चतुर्दा करोति' इति पुरोडाशसामान्ये प्राप्तं चतुर्दाकरणम्, 'आ- ग्नेयं चतुर्दा करोति'इत्याग्नेये सङ्कोच्यत इति चेत- इत्यत आह-लक्षणयेति । वाक्यस्ये सनन्तरं स्वार्थ इति पूरणी. यम् । 'नानुयाजेषु'इतिनिषेधादि येयजामहनिवृत्तिरनुयाजेषु ता- त्पर्येण प्रतीयते । नच लक्षण या पर्युदासाश्रयणे सा त्यज्यते । अपा- क्षिकत्वासद्ध्या सुतरां तनि हात् । अतस्तात्पर्यविषयतया प्र. तीयमानार्थगोचरप्रामाण्यसियनुगुणाया लक्षणाया 'वेदोऽयमाश्र यत्यर्थम्' इतिन्यायेन वेदानुमतत्वाददोषत्वम् । यवशास्त्रे तु यवानां नित्यत्ववत्साधनत्वं तात्पर्येण प्रतीयते, गौणी चाश्रीयमाणा तद्धा- धेनैवेति तद्गोचरप्रामाण्यसिद्ध्यननगुणायास्तस्या चेदाननुमतत्वा- दोषत्वमित्याशयः । नच शाब्दबोधवेलायामबोध्यायां फलत्वेना- सिध्यन्त्यामपि निवृत्तौ 'नानुयाजेषु'इत्यस्य कथं प्रामाण्योपप- त्तिरिति शङ्कपम् । हन्त्यादिविधेनियमादाविच तात्पर्यविषयत्वेन तस्यां