पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- वदनाकरणादिवदर्शपूर्णमासयोः । स चोपाकारोऽदृष्ट- रूप इति द्विरदृष्टकल्पनाप्रसङ्गः। अतश्च विकल्पो न यु- क्तः । प्रतिषेधाश्रयणे च तदापत्तेर्न तदाश्रयणं, किं तु नत्रोऽनुयाजशब्देन सम्बन्धमाश्रिस्य पर्युदास आ- श्रीयते नअनुयाजशब्दाभ्यामनुयाजव्यतिरिक्तलक्षणात् । अनुयाजव्यतिरिक्तेषु येयजामहं करोतीत्यत्र च वाक्ये येयजामहः कर्त्तव्यतया न विधीयते यजतिषु येयजामहं करोतीत्यनेनैव विहितत्वात, किं तु सामा- न्यशास्त्रविहितयेयजामहानुवादेन तस्यानुयाजव्यातरि- क्तविषयता विधीयते यत् यजतिषु येयजामहं करोति तदनुयाजव्यतिरिक्तविति । एवं च सामान्यशास्त्रस्य विशेषापेक्षिणो नानुयाजेष्वित्यनेनानुयाजव्यतिरिक्तवि- पयसमर्पणादनयाजव्यतिरिक्तेषु येयजामहः कर्तव्यतया प्राप्तः । अनुयाजेषु तु स न कर्तव्यतया प्राप्तो न वा । प्रात रुचितत्वात् . तस्याश्च प्राक्सिद्धातिदेशसापेक्षत्वादित्याशयः । पर्यु- दासाश्रयणे वा कथं न विकल्प इत्याशङ्याह-एवं चेति इति । प्राप्नोतीत्यर्थः । न चैवं 'न सौम्येऽध्वरे' इत्यत्रापि पर्युदासा- पत्तिः । युदासस्थले वाक्यार्थबोधनिहाय प्रासिद्धप्राप्त्यनेपक्ष- खेऽपि प्रपोजनबत्त्वनिहाय स्वव्यतिरेके पर्युदसनीयगोचरसम्भा- वितप्राप्त्यपेक्षत्वात् , इह च तदभावात् । नन्वेवं व्रीहियवविकल्प- परिहाराय यक्शब्दोऽपि यवशास्त्रे ब्रीहिषु यवसादृश्यविधानार्थः स्थान, सभामनन्त्यपि गौणी पर्युदासस्थलीयलक्षणावददोष