पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नत्रः पर्युदासकत्वम् ४५३ स्यात् । स च न युक्तः। विकल्पे हि पक्षे शास्त्रस्या- प्रामाण्यं भवति । न ह्यनुयाजेषु येयजामहकरणे ना- नुयाजेष्वित्यस्य प्रामाण्यं सम्भवति, ब्रीह्यनुष्ठानसमय इव यवशास्त्रस्य । दिरदृष्टकल्पना च स्यात् । विधेर्हि एवं ज्ञायते यदनुयाजेषु येयजामहकरणे कश्चनोपकारो भवतीति, निषेधाच तदकरणादिति ज्ञायते, अनृत- चिनोर्नअनुयाजशब्दयोः कथं सम्बन्ध इत्याशझ्याह-नयनुयाः जेष्यिति । न तौ पशौ करोति' इत्यत्र प्रयोजनासम्भवेन पर्युदासा- भावं सूचयितुं प्रकृते वाक्याथेशोधनपूर्वकं पर्युदासप्रयोजनमाइ- अत्र चेति । यथा येयजामहो यज्ञसामान्यानुवादेन विहितस्तथा यद्याज्यभागौ विहितौ स्यातां तदा तद्विधेविषयसमर्पणाय 'पशुव- नम्' इति पर्युदास आश्रीयेत । नचैवम् । उपदेशविधेर्दर्शपूर्णमासमात्र- विषयत्वात् , अतिदेशस्य च तत्तद्विकृतिविश्रान्तत्वात् । नच 'नार्षेयं वृणीते'इतिवद्'आज्यभागवर्ने पशौ तद्वत्कुर्याद्'इत्यातिदेशविषयसम- र्पणायैव पर्युदासाश्रयणसम्भवः।तथा सति 'न तो पशौ करोति'इ- त्यस्य पाशुकातिदेशप्रत्युत्तरं प्रवृत्त्यापत्तेः । अस्तु तथेति चेत् । न । दार्शिकाज्यभागविधिमात्रजन्यामसाधारण्येनाज्यभागोपस्थिति- मपक्ष्य प्रवृत्तेन 'तो' इतिपदेन युक्तस्यास्य शास्त्रस्य समस्तोपदेश- प्रत्युत्तरभाविपाशुकातिदेशोत्तरप्रवृत्यसम्भवात् । न च निषेध स्यापि प्राप्त्यपेक्षत्वात्पाशुकार्तिदशोत्तरप्रवृत्तित्वं तुल्यमिति शङ्ग्यम् । 'यः पशुस्तत्र तौ न कायौं' इतिपश्वनुवादेनाज्यभागवर्जनमङ्गत्वे- न बोधयतोऽस्य प्राक्सिद्धपशुप्राप्तिमात्रसापेक्षत्वात् , भाविप्राप्ति- सम्भवेन च प्रयोजनत्वात् । पयुदासपक्षे त्वतिदेशविषयसमर्पण- निर्वाहाय 'यत् पशौ तत् कुर्यात्तदाज्यभागवर्नम्' इत्येव वचनव्यक्त