पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायमकाशे- एवं च निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यवद्विधिः शास्त्रस्याप्युपजीव्यत्वेन प्राबल्यमस्तीति न निषेधेन विधेरत्यन्तबाधा युक्त इति विहितप्रतिपिद्धत्वाद्विकल्पः सिद्ध्यपेक्षाया अवश्यवक्तव्यत्वात् । ननिषेधमत्तेः प्राक् सामा न्यशास्त्रतात्पर्य भ्रमोत्थतमसिद्धिरापाद्यते तदाऽनुयाजयेयजामह- संसर्गस्य तताऽसिद्धरन्यतश्च तत्ससिद्धे रशक्यत्वादप्रसिद्धस्य चा- नुवाचवायोगाकमुक्तविधवचनव्यक्त्याश्रयणेन निषेधमामा- यमवतिष्ठेन ? । नहि शशविषाणभ्रमदशायां यच्छशविषाणेन कार्मु- के कुर्यात्तन्न इति सम्भवत्यत्तिकोऽपि निषेधस्तद्वाघदशायां प्रवर्ति- तुमुत्स हत इत्ति सहृदयैरेवालोचनीयम् । अतो निषेधेनैव स्वप्रामाण्यै- करूप्यनिर्वाहाय सामान्यशास्त्रस्यानुयाजयेयजामहसंसर्गे प्रामा- ग्यमनुमन्तव्यम् । नचैवं स्मृतिष्वपि भ्रान्तिमाप्तस्य निषेधपर्युदा- सो न स्यातामिति शक्यम् । एकरूपप्रामाण्यशून्य वाक्यानां तासु व- हूपलब्धेः । यथैव ह्यन्वयव्यतिरेकमूलकानि यत्रानुकूल्यं दम्पत्यो. खिवर्गस्तत्र बर्द्धते' इत्यादिवाक्यानि अन्वयाद्यालोचनाकुशलान् प्रति प्रामाण्यमनुभवन्त्यपि तदालोचनकुशलान्प्रति न प्रामाण्यम- नुभवन्ति, तथा यदि कानिचित् तमेव प्रति भ्रान्तिदशायां प्रामा- ज्यमनुभूय बाघदशायां नानुभवेयुस्तदा न क्षतिः । नतु वेदवाक्य- स्यैवंविधता, तत्रैकरूप्येणैव मामाण्यस्य वक्तुमुचितत्वात् । अन्यथैष गुणविधिः,एष उत्पत्तिविधिः,एष नित्यानुवाद इति व्यवस्थोच्छेदाप- तेः । पुरुष भेदेन कालभेदेन प्रतिपत्तिवैचित्र्यस्यानिवार्यत्वात् । नचैव 'न दीक्षितो जुहोति' इत्यादावपि विकल्पापत्तिः,तत्परिहारस्या- नुपदं वक्ष्यमाणत्वादिति । फलितमाह-एवं चेति । भवतु विक- ल्प इसाशक्य तस्य दूषकतावीजमाह-स चेति । भावाभावा.